________________
२०८
समास-विग्रहः वारि० ' तत्पुरुषः', मोहनश्चासौ वारिराशिश्च मोहन० 'कर्मधारयः, नव एव मोहनवारिराशिः नव० 'कर्मधारयः', तस्य नव०॥
६६--जिनानां चक्रवालं जिन० 'तत्पुरुषः, तत् जिन । आनन्दस्य दानं येषां ते आनन्द० 'बहुव्रीहिः', आनन्ददानैः महितं आनन्द० 'तत्पुरुषः', तद् आनन्द । नरकस्य अन्तः नरका० 'तत्पुरुषः', नरकान्तं करोतीति नरका० 'उपपद 'समासः, तत् नरका० । हारिणो गुणा यस्य तत् हारि० 'बहुव्रीहिः', तत् हारि० । नराणां कान्तं नर० 'तत्पुरुषः', नरकान्तं करोतीति नर० ' उपपद 'समासः, तत् नर०॥
६७-जिनानां पतिः जिन. 'तत्पुरुषः, तस्य जिन । भ्राजिष्णुर्मा यस्याः सा भ्राजि० 'बहुव्रीहिः।। नराणां हिता नर० 'तत्पुरुषः । न कलिता अक० ' नञ्तत्पुरुषः । सुधा च सुधाभश्च अभ्राणि च सुधा० ' इतरेतरद्वन्द्वः', धवलिम्ना अस्तानि सुधासुधाभाभ्राणि यया सा धवलिमा० 'बहुव्रीहिः । न जिष्णुः अजि० नञ्तत्पुरुषः', अजिष्णुश्चासौ मानश्च अजिष्णु० 'कर्मधारयः', अजिष्णुमानेन रहिता अजिष्णु० 'तत्पुरुषः' । कलिश्च तापश्च कलितापी 'इतरेतरद्वन्द्वः', कलितापौ करोतीति कलि० 'उपपद 'समासः, तैः कलि० ॥
६८--जिनानां राजा जिन० 'तत्पुरुषः', पादयोः द्वन्द्वं पाद० ' तत्पुरुषः', जिनराजस्य पादद्वन्दं जिन ' तत्पुरुषः', तत् जिन । विभायाः आकरः विभा० ' तत्पुरुषः', शययोः विभाऽऽकरः शय० 'तत्पुरुषः', शयविभाऽऽकरेण राजमाना शय० 'तत्पुरुषः । श्रिया युक्ता बला श्री० 'मध्यमपदलोपी' समासः, तत्सं० श्री० । वरं बलं यस्याः सा वर० 'बहुव्रीहिः', तत्सं० वर० । समश्चासौ सङ्घकश्च सम० 'कर्मधारयः, तस्य सम० । विभाकरश्च राजा च विभा० 'इतरेतरद्वन्द्वः', विभाकरराजयोरिव मानं यस्याः सा विभा० 'बहुव्रीहिः ॥
६९--सुराणा आलिः सुरा० 'तत्पुरुषः' । अग्रा सेवा यस्य तत् 'बहुव्रीहिः' तस्मिन् अग्र०। शोभनं च तद् दर्शनं च सुद० 'कर्मधारयः', सुदर्शनं धरतीति सुद? ' उपपद '. समासः, तस्मिन् सुद० । न विद्यते शमनं यस्य सः अश० 'बहुव्रीहिः', तं अश० । शोभनं दर्शनं यस्य स सुद०, धराया ईशः घरेशः, सुदर्शनश्वासौ धरे शश्च सुद० 'कर्मधारयः, तं सुद० । अन्तश्च वामा च अन्त० 'इतरेतरद्वन्द्वः', न विद्यते अन्तवामे यस्य सः अनन्त. 'बहुव्रीहिः', तं अनन्त ॥
७०--सर्वज्ञानां संहतिः सर्वज्ञ ० ' तत्पुरुषः । भवश्च अरयश्च जनिश्च शापश्च भवारि० ' इतरेतरद्वन्द्वः', भवारिजनिशापैः तिरोहिता भवारि० 'तत्पुरुषः', भवारिजनिशापतिरोहिता श्रीर्यस्याः सा भवा० 'बहुव्रीहिः । कृता धीयः ते कृत. 'बहुव्रीहिः', तेषां कृत । आरम्भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org