________________
૨૦૨
समास-विग्रहः ३७--पीडाना आगमः पीडा० 'तत्पुरुषः ।। मानां आनन्दः मा० 'तत्पुरुषः', दत्तो मानन्दो येन स दत्त० 'बहुव्रीहिः', तं दत्त । न तनूनि अतनूनि 'नञ्तत्पुरुषः', उद्भवश्च भयं च यशश्च उद्भव० 'इतरेतरद्वन्द्वः', अतनुनि च तानि उद्भवभययशांसि च अतनू० 'कर्मधारयः', तेषां अतनू० । प्रकृष्टा सिद्धिर्यस्य स प्रसिद्धिः 'बहुव्रीहिः', तत्सं० प्रसिद्ध !। नन्दायाः तनुः नन्दा० 'तत्पुरुषः', नन्दातन्वोः उद्भवो यस्य स नन्दा० 'बहुव्रीहिः', तत्सं० नन्दा०॥
३८--चित्तस्य वृत्तिः चित्त० 'तत्पुरुषः', यस्याः चित्तवृत्तिः यच्चित्त० ' तत्पुरुषः । प्रशस्त आयो यया सा प्रश० 'बहुव्रीहिः । तापं ददातीति ताप० 'उपपद 'समासः, तत् ताप० । मानवानां प्रकरः मानव० 'तत्पुरुषः', तत्सं० मानव । याता आपदू यस्य यस्माद् वा स याता० 'बहुव्रीहिः', तं याता। आरं च तमश्च रुजा च आलं च आर० 'इतरेतरद्वन्द्वः', सितानि आरतमोरुजालानि येन स सिता० 'बहुव्रीहिः', तं सिता०॥
- ३९-जिनानां आगमः जिना ० 'तत्पुरुषः', तत्सं० जिना० । दव इव अरयः दवा. 'कर्मधारयः', दवारीणां हरः दवा० 'तत्पुरुषः', तस्मिन् दवा० । वर्णैः सहितं सवर्ण 'बहुव्रीहिः, तस्मिन् सवर्णे । आरम्भेण सहिता सारम्भा 'बहुव्रीहिः, सारम्भा चासौ आजिश्च सार० 'कर्मधारयः, सारम्भाजिरेव नागः सार० 'कर्मधारयः', सारम्भाजिनागम्य मदः सार० 'तत्पुरुषः', सारम्भाजिनागमदस्य वारि सार० ' तत्पुरुषः, सारम्भाजिनागमदवारिणि हरिःसार० 'तत्पुरुषः', तत्सं० सार० । न सवर्ण अस० 'नजूतत्पुरुषः', तस्मिन् अस०॥
४०--जिनस्य पदं जिन० 'तत्पुरुषः, तत् जिन । विशाला चासौ आपच विशाला. 'कर्मधारयः, विशालापत्तेः त्रायते इति विशाला. 'उपपद 'समासः, तद् विशाला। परश्वासौ आगमश्च परा० 'कर्मधारयः', परागमस्य धूः परा० 'तत्पुरुषः', तां परा० । आमश्च शोकश्च आम० 'इतरेतरद्वन्द्वः', विगतो आमशोको यस्याः सा विगता० 'बहुव्रीहिः', तां विगता० । स्मेरं आननं यस्याः सा स्मेरा० 'बहुव्रीहिः', तां स्मेरा० । शोभनश्चासौ जनश्च सुजनः 'कर्मधारयः, तत्सं० सुजन! । परागेण मधुरं पराग० 'तत्पुरुष', तत् पराग०॥
४१--सर्व वेत्तीति सर्व० 'उपपद समासः, श्रेयासश्चासौ सर्वविच्च श्रेयांस० 'कर्म धारयः, तं श्रेयांस० । अङ्गिनां गणः अङ्गि० 'तत्पुरुषः, तत्सं० अङ्गि । त्रियामायाः कान्तः त्रियामा० ' तत्पुरुषः', त्रियामाकान्तवद् आननं यस्य स त्रियामा० 'बहुव्रीहिः', तं त्रियामा० । मान एव वातः मान० 'कर्मधारयः', तस्मिन् मान । न विद्यते अन्तो यस्य सः अनन्त० 'बहुव्रीहिः', अनन्तो महिमा यस्य सः अनन्त. 'बहुव्रीहिः', तं अनन्त । न मा अमा ‘नतत्पुरुषः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org