________________
समास-विग्रहः
૨૦૧ समु० 'बहुव्रीहिः । पङ्कस्य मला: पङ्क० ' तत्पुरुषः, अनेकश्वासौ पङ्कमलश्च अनेक. 'कर्मधारयः', अनेकपङ्कमलेन मुक्तः अनेक० 'तत्पुरुषः', अनेकपकमलमुक्तो घनो यस्याः सा अनेक० 'बहुव्रीहिः' । घना आभा यस्य स घनाभः 'बहुव्रीहिः', तं घनाभम् ॥
____३३--इन्दुरिव यशांसि इन्दु० 'कर्मधारयः', तेषां इन्दु० । रामश्चासौ अङ्गजश्च रामा० 'कर्मधारयः', निरस्तो रामाङ्गजो येन स निरस्त० 'बहुव्रीहिः ।। न विद्यते रुजा यस्य सः अरुजः 'बहुव्रीहिः', तत्सं० अरु० । शोभनो विधिर्यस्य स सु० 'बहुव्रीहिः', तत्सं० सु० । रामायाः अङ्गजः रामा० ' तत्पुरुषः', तत्सं० रामा० ॥
३४-अतिशयेन मतः अति० 'प्रादि समासः। अतिशयेन चण्डः अति० 'पादि'समासः, अतिचण्डश्चासौ भास्वांश्च अति० 'कर्मधारयः, अतिचण्डभास्वद्वत् महो यस्य सः अति० 'बहुव्रीहिः । शिवमेव पूः शिव० 'तत्पुरुषः, तस्य शिव० । न यशः अयशः 'नतत्पुरुषः', तस्मात् अयशस्तः । अपायेन रहितः अपाय. 'तत्पुरुषः । जिनानां ओघः जिनौ० 'तत्पुरुष । भास्वत् महो यस्य स भास्व० 'बहुव्रीहिः ।।शिवं पुरं यस्य स शिव० 'बहुव्रीहिः । विधेयेन सहितं सविधेयं 'बहुव्रीहिः', सविधेयं शस्तं यस्य स सविधेय० 'बहुव्रीहिः ॥
३५--प्रचुराणि च तानि पुण्यानि च प्रचुर० 'कर्मधारयः', प्रचुरपुण्यानां भराः प्रचुर० 'तत्पुरुषः, तैः प्रचुर । विशेषेण नम्राः विनम्राः 'प्रादि समासः, अपगता अपाया येभ्यस्ते अपा० 'बहुव्रीहिः', विनम्राश्च ने अपापायाश्च विनम्रा० 'कर्मधारयः', विनम्रापापाया मानवा यस्य स विनम्रा० 'बहुव्रीहिः', तं विनम्रा० । सुधारुचेः रङ्गः सुधा० 'तत्पुरुषः', सुधारुचिरङ्ग इव तारं सुधा० 'कर्मधारयः', तत् सुधा० । भवतः वचनं भव० 'तत्पुरुषः, तद् भव० । पापस्य आयो यस्मात् स पापा० 'बहुव्रीहिः, पापायश्चासौ मानश्च पापा० 'कर्मधारयः', व्यपास्तः पापायमानो येन स व्यपा० 'बहुव्रीहिः' तत्सं० व्यापा० । वसुधायां रुचिरं वसुधा० 'तत्पुरुषः', तद् वसुधा० । गतम् आरं यस्मात् तद् गता. 'बहुव्रीहिः', बद् गता० ॥
३६ वाचो विभवः वाग्वि० 'तत्पुरुषः, विशदश्चासौ वाग्विभवश्च विशद० 'कर्मधारयः, सारं च तद् अमृतं च सारा० 'कर्मधारयः, विशदवाग्विभवेन अभिभूतं सारामृतं यया सा विशद० 'बहुव्रीहिः । तारकाणां ईश: तार० 'तत्पुरुषः', शोभनश्चासौ तारकेशश्च सुतार० 'कर्मधारयः' आस्थमेव सुतारकेशः आस्य० 'कर्मधारयः', समुदित आस्यसुतारकेशो यस्याः सा समुदिता० 'बहुव्रीहिः।। उपपलवानां चमूः उप० 'तत्पुरुषः', तां उप० । उचितस्य प्रदानं उचित. 'तत्पुरुषः, तस्मिन् उचित । न विद्यते सारो यस्यां सा असारा 'बहुव्रीहिः, तो असाराम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org