________________
सरस्वती-भक्तामरम्
[ सरस्वतीटीका किलेति सत्ये । अहमपि तां ब्राह्मी स्तोष्ये । यत्तदोर्नित्यसम्बन्धात् तामितिपदं गृहीतम् । ब्रह्मणो-ज्ञानस्येयं मूर्तिर्बाही-श्रुतदेवता । अथवा ब्रह्मचर्येण-शीलेन ख्याता ब्राह्मीऋषभदेवपुत्री, ब्राह्मीसुन्दरीत्यभिधानात् । अथवा बृंहते-शब्दायते अथवा बृहते-वर्धते मा-ज्ञानं अनेनेति ब्रह्मः-वर्णात्मकः समुदायः, स च द्विपञ्चाशदक्षराणां न्यासो-लिपिरूपस्तेन ब्रह्मन्यासेन जाता मी अक्षरात्मिका लिपिरिति व्यक्तार्थचतुष्टयप्रतिपादिकां तां ब्राह्मीं मुख्यत्वाच्छुतदेवतामेव स्तौति शास्त्रकृत् , यत आतोकि:-" नमो बंभीए लिविए," "अहवा नमो सुयदेवयाए भगवतीए" इत्याख्यानदर्शनान्नैष संशयापनः । पूर्वोक्तार्थचतुष्टयसंपन्नामपि तां स्तौति, चरितार्थवैचित्र्येण कवीनां रचनायोगाच्चेति विवेकः । किलेत्यव्ययम् । अहमिति कर्ता । ब्राह्मीमिति द्वितीयान्तं कर्म । स्तोष्ये इति क्रियापदम् । कठुक्तिरियम् । किंविशिष्टां ब्राह्मीं-श्रुतदेवतां ? 'अजिह्मगुणगौरवगौवर्णो' अजिह्मः-सरलः गुणानां गौरवः-अनन्तज्ञानदर्शनपर्यायात्मकस्तेनाजिह्मगुणगौरवेण गौरवर्णः-शुभ्रप्रकाशो यस्याः साजिमगुणगौरवगौरवर्णा तां, ज्ञानस्य शुभ्रप्रकाशत्वात् , प्रथमोऽर्थः १ । अथवा किंविशिष्टां ब्राह्मी-सरस्वती ? अजिह्मः-अकुटिलो गुणगौरवः-वरदानलक्षणस्तेन गौरवर्णः-सुन्दररूपं यस्याः सा तां, वरप्रदानगुणेन गौररूपत्वाद् , द्वितीयोऽर्थः २। अथवा किंविशिष्टां वामी-ऋषभपुत्रीं ? अजिमगुणगौरवेण-क्षान्त्यादिगुणमहत्त्वेन गौरो-निर्मलः वर्णनं-वर्ण:स्तुतिर्यस्याः सा तो, क्षान्त्यादिमहत्त्वेन निर्मलस्तुतित्वात् , तृतीयोऽर्थः ३ । अथवा किंविशिष्टां ब्राह्मीं-अक्षरलिपि ? अजिह्मानि-सरलानि गुणगौरवेण-दक्षिणकरलिखनन्यासेन गौराणि-उज्ज्व लानि वर्णानि-अक्षराणि यस्याः सा तां, सरलाक्षरन्यासां, चतुर्थोऽर्थः ४ । पुनः किंविशिष्टब्राह्मीं ? तं प्रथमं जिनेन्द्रं संश्रिताम्-आश्रितां, श्रुतदेवतापक्षे तं प्रथमं प्रथु विस्तारे प्रथनं प्रथोविस्तरो मा-ज्ञानं यस्य स (तं ) प्रथमं जिनेन्द्रं-तीर्थनाथ, जयति रागादीनिति, तीर्थकृत्पक्षे जिनानां सामान्यकेवलिनां इन्द्रो जिनेन्द्रस्तं जिनेन्द्र, जिनाः सामान्यकेवलिनः कथ्यन्तेर्हन्नपि च । सरस्वतीपक्षेऽप्येवं, तमेव वाग्रूपत्वेन संश्रिताम् , अथवा मतान्तरे जिनो-विष्णुः स चासाविन्द्रश्च जिनेन्द्रः, त्रयाणां ब्रह्मविष्णुरुद्राणामेकत्वकथनेन सर्वेषां जिनेन्द्रतापत्तिः, तथापि मुख्यस्वाद ब्रह्मणः प्रथमजिनेन्द्रत्वं प्रतिपादितम् । तेन प्रथमं जिनेन्द्रं-ब्रह्माणमेवेति फलितोऽर्थः, तं संश्रिताम् । ब्राह्मीसाध्वीपक्षे लिपिपक्षे च तं प्रथमं जिनेन्द्र-श्रीधर्मनाथं ऋषभदेवं संश्रितां, तदुत्पन्नत्वाचेति निर्णयः, तं प्रथमं जिनेन्द्रं संश्रिताम् । कया? (विशद )वर्णलिपिप्रसूत्या' वर्ण्यते इति वर्ण:-प्रकाशः, लिपिः-अक्षरन्यासः, तयोः प्रसूतिः-उत्पादस्तया, श्रुतप्रकाशाक्षरजननेनेति । श्रुतदेवतापक्षे वर्णः, सरस्वतीपक्षे लिपिः, ब्राह्मीशब्दद्वयार्थपक्षे वर्णानाम्-अक्षराणां लिपिः-न्यासो वर्णलिपिः, सा चासौ प्रसूतिश्च तया, प्रसूतिः-उत्पादः सन्तानश्च पुत्रीभावत्वेनाश्रितां इति विशेषणपदं स्थितम् । तां कां ? या ब्राह्मी पूर्वोक्तार्थचतुष्टयात्मिका । तं कं ? यं पूर्वोक्तं प्रथम जिनेन्द्र जनयितारं-उत्पादयितारं अर्थात् पितरं मत्वा-ज्ञात्वा एव हस्ते करविषयेऽरंस्त-सोल्लासं रेमे
१ नमो ब्राह्मै लिप्य (भगवत्यां श० १, उ० १, सू०१)। २ अथवा नमः श्रुतदेवतायै भगवत्यै ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org