SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ पाश्वे-भक्तामरम् [ श्रीपा पारं त्वदीप्सितजना भवसागरस्य त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥ ४०॥ श्वित्रोपचित्रितविरूपनिरूपिताङ्गाः स्वोपात्तदुर्ललितकर्मविपाकविडाः। तेऽपि त्वदीयपदपद्मपरीष्टिपुण्या न्मा भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥ ये त्वामनन्यमनसः परमार्थरक्ता श्चित्ते चिदेकनिलयं परिचिन्तयन्ति । घोरानुभावघनकर्मजपाशबन्धात् सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४२ ॥ देन्ती( ? )मृगारिदववह्निभुजङ्गयुद्ध___ वारीशदुष्टगदबन्धनजं भयौघम् । तस्यान्तरङमपि नश्यति दुःखजालं यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥ इत्थं जिनेन्द्रगुणसंस्तुतिमद्भुतार्थी श्रुत्वा नरः श्रवणभूषणतां करोति । इष्टार्थसाधनपरा परिवर्धमाना तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४४ ॥ एवं श्री मानतुडी' कृतिरतिरुचिरा सत्समस्यापदैस्तैः सन्दृब्धा पार्श्व'नाथस्तुतिरसमिलिताऽऽनन्दसन्दोहसारा । श्रीमच्छ्रीपाठकानां गुरुतर 'विनया'द्य प्रमोदा'भिधानां शिष्येण प्राप्य सेवां 'विनय'पदयुजा 'लाभ'नाम्ना सुखेन ॥ ४५ ॥ १'दन्तीभकारि' इति प्रतिभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy