________________
साताभ२]
श्रीविनयलाभगणिगुम्फितम् भीमं चतुष्टयगतिप्रभवोग्रनागं
दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३४ ॥ येन प्रचण्डतरमूर्तिधरावनीश
मुख्याऽप्यनन्तजनता सकला प्रजग्धा । हिंस्रोग्रकालकुलसाध्वसदुर्मंगारि
र्नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३५ ॥ यस्मिन्नभिज्वलति द(दे)ह्यतिसारभूत
मिष्टार्थनाशकमनर्थकरं परं च (तम् )। क्रोधानलं विमलशान्तरसप्रमोषं
त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३६ ॥ वैषम्यदोषविषदूषितजीववर्गो
विद्विष्टदुष्टमदनाख्यमहोरगेन्द्रः । विश्वत्रयप्रभविता विलुठेन्न तस्य
त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७॥ अन्तर्गतप्रबलदुर्जयमोहसैन्यं
कामादिकोटिभटलुण्ठितधर्मधैर्यम् । चैतन्यविप्लुतिकरं च यथाऽर्कतापात्
त्वत्कीर्तनात् तम इवाशु भिदामुपैति ३८ ॥ प्रागुग्रयोगधरयोगिविधूतधैर्ये
प्रौढाष्टकर्मभटभञ्जनघोरयुद्धे। तस्मिन्नभूतविजयं गुणसङ्घमुख्या
स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९ ॥ भूयिष्ठजन्मनिधनोरुगभीरनीर
योगापयोगलहरीगदमीनभर्तुः।
१'चतुर्गतिपदं प्रभ.' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org