SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पार्श्व-भक्तामरम् : [श्रीपा तस्मिन् विभाति वदनं परमं त्वदीयं बिम्ब रवेरिव पयोधरपार्श्ववर्ति ॥ २८ ॥ धर्मध्वजोपरिलसत्कनकस्य कुम्भं त्वत्प्रातिहार्यजनितं सुजनाः समीक्ष्य । तुल्योपमां विदधतीति किमूग्रबिम्ब तुङ्गोदयादिशिरसीव सहस्ररश्मेः ॥ २९ ॥ यस्मिन् गृहे सुकृतिनः कुरुषे निरीहः सत्पारणां भवमहोदधितारणां त्वम् । कुर्वन्ति देवतगणाः कनकस्य वृष्टि मुच्चैस्तदं सुरगिरेरिव शातकौम्भम् ॥ ३० ॥ अत्युज्ज्वलं तव यशः प्रथितं त्रिलोक्यां शेषार्णवेन्दुमिषतः कृतरूपभेदम् । पातालमर्त्यदिवि सञ्चरते यथेष्टं प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥ त्वज्जन्ममज्जनविधि सविधि सुमेरौ कुर्वन्त एव वरतीर्थसमुद्भवानि । मृत्स्नादिमङ्गलमहौषधिजीवनानि __ पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२ ॥ त्वत्केवलानुभवतेजतुलां लभेत ज्ञानं न चेतरसुरस्य कषायवश्यात् । यादृग मरीचिरचना हि सहस्ररश्मे स्तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥ ३३ ॥ गर्भाशयादनुसमुद्गतयोनियन्त्र पीडाकदम्बककदर्थितजन्तुराशिम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy