________________
भताभ२]
श्रीविनयलाभगणिगुम्फितम् सन्तीन्दुतारकभृतोऽन्यदिशोऽर्कबिम्ब
प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥ २२ ॥ प्राग्भूतसातिशययोगिजनप्रगीताद्
दुष्टाष्टकर्मचयचक्रमणैकलक्षात् । युष्मत्प्रवर्तितपथः परितोऽनवद्या__ नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥ २३ ।। भावावभासनपराद्भुतशुद्धबुद्धया
निर्णीय तत्त्वमखिलं सकलागमस्थ । त्वां विश्वनायकमनन्तसुखानुषक्तं
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ केचित् सुराः परुषभावपरीतचित्ता ___ बाढं परे स्फुरदनङ्गनिषङ्गवश्याः । मुक्तः सदैव भवभूरुहबीजसङ्गाद्
व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५ ॥ धौताष्टकर्मदलकश्मल ! निर्मलाय
ध्यानानलोडुषितदुर्ममतालताय । विश्वत्रय(यी)कृतगुणस्तुतिमङ्गलाय
तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥ २६ ॥ सूक्ष्मेतरेषु च भवेषु निगोदजेषु
तिष्ठन्त्यनन्ततरकालमतीव दुःस्थाः। तैर्जन्तुभिर्बहुलकर्मवशाज्जिन ! त्वं
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७ ॥ चञ्चत्तमालदलकज्जलनीलभासि
नीरन्ध्रसन्तमसि दुष्कमठप्रक्लप्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org