________________
[श्रीपार्थ
पार्श्व-भक्तामरम् ज्ञानाचिरस्तमितमोहतमप्रपञ्चो
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६॥ जाग्रदिवारजनिसाम्यविधिप्रकाशः
सङ्ख्यातिरिक्तभुवनाद(व)धिकप्रचारः। कुर्वन् विवेकिहृदयाम्बुजसत्प्रबोधं
सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥ १७ ॥ पक्षद्वयाधिककलं निशि वासरेषु
तुल्यप्रभावमकलङ्कमनन्तमान्यम् । मार्तण्डराहुघनभीतिभिदं तवास्यं
विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥ १८ ॥ कोऽर्थः सुरद्रु-मणि-कासगवीभिरीश !
प्राप्तो मया स यदि ते परमप्रसादः ? । नित्योल्लसत्सुरसरिज्जलपूर्णदेशे ___ कार्य कियज्जलधरैर्जलमारननैः ? ॥ १९ ॥ मुक्त्यैषकस्त्वयि निवेशयति स्वचित्तं
नैवान्यदैवतगणे घनदोषयुक्ते। यादृग् रमेत हृदयं चतुरस्य रत्ने
नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥ निर्णीततत्त्वपदनिश्चलमानसानां
त्वत्पादपद्मपरिचारणतत्पराणाम् । पुंसामिहत्यकतिचित्सुखदो न देवः
कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥ प्रज्ञा तवैव परमोच्चगुणाश्रया या
प्रादुश्चकार विमलद्युति केवलाख्यम् ।
१ ज्ञानमिति अध्याहार्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org