________________
पार्श्व-भक्तामरम्
[ श्रीपाको लक्षयेद् गगनमाशु पदैः प्रसह्य ?
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ॥ ४ ॥ मन्दोऽप्यहं गुणनिधे ! निजबुद्धिशक्त्या
त्ववर्णनां रचयितुं परमं यतिष्ये । धीरा द्रु(द?)वन्ति समरे हि तथाऽनलोऽपि
नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५॥ त्वत्कीर्तिकीर्तनविधौ हि मनो मदीयं
हृल्लेखतां व्रजति तत्र तवानुभावः । गुञ्जन्ति षट्पदगणाः सुरभौ मदान्धा
स्तच्चारुचूतकलिकानिकरैकहेतुः ॥ ६ ॥ भास्वत्प्रभानिचयचिन्मय ! सत्प्रकाशाद्
ध्यानात् तव प्रबलसन्तमसं हृदिस्थम् । दूरे प्रयाति विलयं खलु मोहजातं
सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥ ७॥ ज्ञानं तथाविधमधीश ! न निर्मलं मे
प्रद्योतयिष्यति गुणस्तुतिशुद्धसङ्गः ? । प्रातर्यथा हरिमरीचियुतं(तः) कुशाग्रे
मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥ ८ ॥ दोषानुषङ्गिपरदेवगणानपास्य
लीनानि योगिहृदयानि त्वयि प्रकामम् । हित्वैव दुष्टजलभूमिमतो भवन्ति
पद्माकरेषु जलजानि विकाशभाञ्जि ॥ ९ ॥ मिथ्यावशेन किल पूर्वभवे कुदेव
सेवा कृता जिन ! मया न हिताय जाता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org