________________
नमः श्रीपार्श्वपतये ।
श्रीविनयलाभगणिगुम्फितं ॥ पार्श्वभक्तामरम् ॥
( भक्तामरस्तोत्रस्य समस्यायन्धरचना ) पादारविन्दमकरन्दरसैकलुब्ध
मुग्धेन्दिरप्रवरनिर्जरवृन्दवन्द्यम् । 'पार्श्व'श्वरं प्रविततश्रियमद्वितीय
मालम्बनं भवजले पततां जनानाम् ॥ १॥ सत्कायसुन्दरमनोवचनप्रयोग
सम्पूर्णसाधनविधानगुणैकदक्षैः। यः सेवितः परमधार्मिकसिद्धसधैः __ स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २ ॥ ( युग्मम् ) नाथ ! त्वदीयगुणसंस्तवनं चिकीर्षु
र्लप्स्ये विदग्धजनहास्यपदं विमोहात् । मूढाढते मुकुरमध्यगतास्यबिम्ब
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥ ३ ॥ कश्चिद् विपश्चिदिह नो जगति प्रभूष्णु
यस्त्वद्गुणौघगणनां प्रकटीकरोति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org