________________
सातार
श्रीलक्ष्मीविमलविरचितम्
तृनिम्नगा स्वयमतीर्थमिषाम्बुपङ्का ___ नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३५॥ दिश्येत मुक्तिरिति वा नहि सेवयाऽस्य
मिथ्या विमर्शनमदोऽस्ति मदोज्झितस्य । संसारदुःखनिचितं यदि पापवह्नि
त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३६ ॥ फूत्कारनिर्गतगरप्रसरहवाग्नि
धूम्रीकृतत्रिजगतीजनसद्गुणौषः । दंदश्यते जिन ! न तं स्मयदन्दशूक
स्त्वन्नामनागदमनी हृदि यस्य पुंसः॥ ३७॥ निर्दस्युमित्रतर ! यद्यसि वीतराग
स्त्वद्रागिणां कथमनन्तर्भवोद्भवाक्तम् । आदित्यतः किमु न तु वदवाङ्मुखानां
त्वत्कीर्तनात् तम इवाशु भिदामुपैति ? ॥ ३८ ॥ सन्तप्तदीप्ततपनीयमनोज्ञमूर्ते !
उद्गच्छदूर्मिचलभावविनाशरूपम् । सध्यानगन्धमिह कोविदचञ्चरीका
स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९ ॥ माहात्म्यमद्भुततरं जिन ! तावकीनं
कैश्चित् कुशाग्रमतिशालिभिरप्यगम्यम् । निःसतां त्वयि सरागदृशोऽपि मां
स्त्रासं विहाय भवतः स्मरणादू ब्रजन्ति ॥४॥
१ 'गराप्तमुखाहिकान्त-' इति ख-पाठः । २'जगदेववचःसुधातद्' इति ख-पाठः। ३ 'तस' इति क-पाठः। ४'भवोद्भवात' इति क-ख-पाठः । ५ ख-ग-पाठस्तु यथा
'माहात्म्यमत्र तव कैरपि चिन्तनीयं, न ध्येयगात्रतपसो(?)सुकरान् न केचित् । अन्तं अननिधनयोहिणस्तु केऽपि-त्रासं(3) विहाय भवतः स्मरणाद् व्रजन्ति ॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org