SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ शान्ति-भक्तामरम् [श्रीशान्ति अश्वेतितावनितलाग्रतमोभरः किं तुङ्गोदयादिशिरसीव सहस्ररश्मेः ॥ २९॥ अंह्रिदयं सुरवरा अवमन्य नाकं संसारकृच्छ्रभिदुरं निवसन्ति नित्यम् । नानांह्निपीठसुमनोरचिताग्रभाग मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ ३०॥ आप्त्वाऽपचेतनमहो ! प्रसवीयवृन्दं त्वां स्मेरतां लभत एव कथं विहस्य ? । पत्रैः परश्रियमतो दिवि भो ! त्वदीयं _प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥ ३१॥ सम्भाव्य भद्र ! भवदीयगुणाञ् श्रितास्त्वा मर्ध्या भवेयुरपि नैतदसत्यमत्र । यत् ते क्रमौ श्रयति पीठमतिप्रणिम्नं पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२ ॥ सालोकलोकमणिहारसुनायकस्य यादृक् प्रताप इह दीव्यति ते सखेऽलम् । ध्मातान्यशास्त्रमद ! सोष्णकरस्य ताप स्तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥ ३३ ॥ साटोपकोपशितिरोपनिरोधकारं मोहप्रवेशपिहिताररिसन्निभं ते । दिव्यं कुतश्चन यथार्थतया स्वरूपं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३४॥ कन्दर्पसर्पपतिदाहसुपर्णरूप ! नष्टज्वलत्स्मयहुताशन ! लोलुपाऽपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy