________________
ભક્તામર ]
श्रीलक्ष्मीविमलविरचितम्
एष्यन्ति ये स्वगुणभारभृता हि नाथ !
नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥ २३॥ आराध्य शासनमपास्तकुशासनं ते
ऽन्ये ज्ञानिनः स्युरपि विस्मय एप नार्हन् ! । अन्येभ्य एकमिदमेव पृथग्विधं यं ( यद् ? )
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ त्वां सेवते दिननिशं निजकेवलश्रीः
प्रक्षीणमोहदनुजं ससुदर्शनं सा । अध्यासितोपशमसागरमध्यमस्माद
व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५॥ देवाः परे स्वमपि तारयितुं न हीशा
आत्माश्रितान् कथमिमे प्रभवेयुरत्र ? । नत्यादि तेषु च वृथाऽऽश्रितवैभवाय
तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥ २६ ॥ ये त्वां विमुच्य परकीयविभून् भजन्त्य
विज्ञाततत्त्वमधुरैर्वरतत्त्वकीर्णः । नाम्ना प्रशान्तभविपापजसाध्वसस्तैः
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७ ॥ दुर्भव्यविग्रहिवपुर्वलतीह नाथा
भ्यासे कथं तव चितामृतसारशीते ? । ज्ञातो मयाऽस्य सहजो न भवेत् किमुष्णं
बिम्बं रवेरिव पयोधरपार्श्ववर्ति ? ॥२८॥ त्वत्तोऽन्यवादिनिचयो हि दवीयसोऽपि
भीत्वा प्रणश्यति निरीह ! विदर्पसिंहात् ।
१' यत् ' इति ख-ग-पाठः । २ 'नाहत् ' इति ख-पाठः । ३ · मधुरावर. ' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org