SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ शान्ति-भक्तामरम् [श्रीशान्तिचित्रं न तत्र गदिनोऽपि हि नैव वैद्य नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५ ॥ सर्वव्रतं क्षितिभृतो जगृहुस्तवानु तत्कारणं करणनागहरे ! त्वमेव । आह्लादयत्यपि वनं सुरभिर्जनान् यत् तच्चारुचूतकलिकानिकरैकहेतुः ॥ ६ ॥ अज्ञानमाशु कठिनं दलितं त्वया तद् ध्यानज्वलज्ज्वलनज्योत्स्नमयेन विश्वम् । ज्ञानेन सोज्ज्वलगुणेन हि पञ्चमेन सूर्याशुभिन्नमिव शावरमन्धकारम् ॥ ७ ॥ मान्यानि तानि विबुधैः कमलानि कान्त्य गच्छन्ति त्वत्पदमितानि च यानि योग्यम् । उच्च विषक्तसुरनाथशिरः परं न पद्माकरेषु जलजानि विकाशभाजि ॥ ८ ॥ मोऽन्तिके व्रजति तेऽमृततां मुनीन्द्र स्योत्पन्नसारगुणकेवलदर्शनस्य । मुक्त्यङ्गनारमणवारिधरस्य शुक्तौ मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥ ९॥ त्वत्पादपद्ममभिपूज्य भजन्ति पाइयं पद्मानि किं तदुचितं न वितीर्णवित्त ! । ब्रह्मस्वरूपमय ! तस्य हि सेवया किं भूत्याऽऽश्रितं य इह नात्मसमं करोति ? ॥ १० ॥ पीत्वा वचरतव नभिर्न पिपास्यतेऽन्यद् ध्वस्तासमानरसमाप्तनयं गताघ !। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy