________________
श्रीलक्ष्मीविमलमुनिवर्यविरचितम् ॥शान्ति-भक्तामरम्॥
श्री शान्ति'मङिसमवायहितं सुरेन्द्रा
लोकान्तिका इति गिराऽभिदधुर्यमाशु । तीर्थ विधेहि परिहाय नृराज्यभोगा
वालम्बनं भवजले पततां जनानाम्॥१॥- वसन्ततिलका 'शका'>पादकमलं विमलप्रतापं
व्यापादिताखिलखलारिनृपेन्द्रवर्गम् । क्षीणाष्टकर्मवरचक्रभृतां त्रयाणां ___ स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २॥-युग्मम्
श्रुत्वेति वार्षिकमदाः प्रतिपादनं त्वं ___ भव्याय पापवनवन्यमृतायमानम् । सारं स्वभावसुखदं जिन ! तत्र दान
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥ ३ ॥ आत्तं व्रतं युगरस( ६४ )प्रमितं सहस्रं
स्त्रीणां त्वया निहितमुक्तिहृदा विहाय । त्वामन्तरेण वनितोदभृतं किलान्यः
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ॥ ४ ॥ आदाय नाथ ! चरणं त्रिजगत्पिता त्वं
मोहाधिमत्तनुमतोऽपि चिकित्ससि स्म । १ 'सारस्वभाव.' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org