SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Jain Education International सरस्वती भक्तामरम् अज्ञानमात्र तिमिरं तव वाग्विलासा विद्याविनोदिविदुषां महतां मुखाग्रे । निम्नन्ति तिग्मकिरणा निहिता निरीहे ! तुङोदयाद्विशिरसीव सहस्ररश्मेः ॥ २९ ॥ पृथ्वीतलं द्वयमपायि पवित्रयित्वा शुभ्रं यशो धवलयत्यधुनोर्ध्वलोकम् । प्राग् लङ्घयत् सुमुखि ! ते यदिदं महिम्नामुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ ३० ॥ रोमोर्मिभिर्भुवनमातरिव त्रिवेणी सङ्गं पवित्रयति लोकमदोऽङ्गवर्ति । विभ्राजते भगवति ! त्रिवलीपथं ते प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥ भाष्योक्तियुक्तिगहनानि च निर्मिमी यत्र त्वमेव सति ! शास्त्रसरोवराणि । जानीमहे खलु सुवर्णमयानि वाक्य पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२ ॥ वाग्वैभवं विजयते न यथेतरस्या 'ब्राह्मि ! ' प्रकामरचनारुचिरं तथा ते । ताडङ्कयोस्तव गभस्तिरतीन्युभान्यो तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥ ३३॥ कल्याणि ! सोपनिषदः प्रसभं प्रगृध वेदानतीन्द्रजदरो जलधौ जुगोप । भीष्मं विधेरसुरमुग्ररुषाऽपि यस्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३४ ॥ [ सरस्वती For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy