SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ભક્તામર ] श्रीधर्मसिंहसूरिविरचितम् यत् त्वत्कथामृतरसं सरसं निपीय मेधाविनो नवसुधामपि नाद्रियन्ते । क्षीरार्णवार्ण उचितं मनसाऽप्यवाप्य क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ॥ ११ ॥ जैना वदन्ति वरदे ! सति ! साधुरूपां त्वामामनन्ति नितरामितरे 'भवानीम् । सारस्वतं मतविभिन्नमनेकमेकं यत् ते समानमपरं न हि रूपमस्ति ॥ १२ ॥ मन्ये प्रभूतकिरणौ श्रुतदेवि ! दिव्यौ ___ त्वत्कुण्डलौ किल विडम्बयतस्तमायाम् । मूर्त दृशामविषयं भविभोश्च पूष्णो __ यद् वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥ ये व्योमवातजलवह्निमृदा चयेन कायं प्रहर्षविमुखांस्त्वदृते श्रयन्ति । जातानवाम्ब ! जडताधगुणानणून मां कस्तान निवारयति सञ्चरतो यथेष्टम् ? ॥ १४ ॥ अस्मादृशां वरमवाप्तमिदं भवत्याः 'सत्या'व्रतोरु विकृतेः सरणिं न यातम् । किं चोद्यमैन्द्रमनघे ! सति ! 'सारदे'ऽत्र किं मन्दरादिशिखरं चलितं कदाचित् ? ॥ १५ ॥ निर्माय शास्त्रसदनं यतिभिर्थयैकं प्रादुष्कृतः प्रकृतितीव्रतपोमयेन । उच्छेदितांहउलपैः सति ! गीयसे चिद् दीपोऽपरस्त्वमसिनाऽथ जगत्प्रकाशः ॥ १६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy