________________
सरस्वती-भक्तामरम्
[सरस्वतीશત્રુ પણ (હે ભદ્રે !) તારા ચરણયુગલરૂપી પર્વતેને આશ્રય લીધેલાને પીડા કરી શકો नथी."-34
मांसासृगस्थिरसशुक्रसलज्जमज्जा___ स्नायूदिते वपुषि पित्तमरुत्कफायैः। रोगानलं चपलितावयवं विकारैस्त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३६ ॥
टीका हे कल्याणि! 'त्वन्नामकीर्तनजलं तव नाम त्वन्नाम त्वन्नाम्नः कीर्तन-कथनम्-एकाग्रजपनं तदेव जलं-पानीयं यत् तत् त्वन्नामकीर्तनजलं अशेष-समस्त रोगानलं-कष्टकृशानुं शमयतिविध्यापयति । कस्मिन् ? वपुषि-शरीरे । किंविशिष्टे वपुषि ? 'मांसासृगस्थिरसशुक्रसलज्जमजास्नायूदिते' मांसं च अमृग-रुधिरं च अस्थि च रसश्च शुक्र-वीयं च सलज्जश्चासौ मज्जा च सलज्जमज्जा तस्मिन्, मजनि लज्जात्वं पित्रङ्गत्वाहातं, यतो यस्य पिता कुलीनः तत्पुत्रः सलजः स्यात् तस्य चाङ्गे पित्रङ्गानि तिष्ठन्ति । यदुक्तं विवाहप्रज्ञप्त्याम्-"तओ पितियंगा पण्णत्ता, तंजहा-अहि अघिमिजा केसमंसूरोमणहे " इति पाठात् सलज्जमजा इतिपदमुचितं, स्नायुः-नाडी च मांसासगस्थिरसशुक्रसलजमज्जास्त्रायवस्ताभिः उदिते-उत्पन्ने । तैः सप्तधातुभिः अथवा दशधातुभिः मनुजतनुरुत्पद्यते । ते चोच्यन्ते
"रसामुग्मांसमेदोऽस्थि-मज्जाशुक्राणि धातवः ।
सप्तैव दश वैकेषां, रोमत्वक्स्नायुभिः सह ॥ १॥" इति हैमः ( का० ३, श्लो० २८३)। तदुत्पन्ने वपुपि स्वैश्वानरं त्वन्नामोदकं उपशमयति । किविशिष्टं रोगानलं ? 'पित्तमरुत्कफायैः विकारैः चपलितावयवं' पित्तं च मरुञ्च कफश्च पित्तमरुत्कफास्ते आद्या येषु ते पित्तमरुत्कफाद्यास्तैः पित्तमरुत्कफायैः विकारैः-बहुपीडनैः चपलितानि( ताः) चपलभावं प्रापितानि( ताः) अवयवानि(वाः)-नाड्युच्छ्वासादीनि यस्य तत् चपलितावयवम् । तत् सर्वं शमयतीति भावः ॥ ३६ ॥
अन्वयः (हे कल्याणि ! ) त्वत्-नामन्-कीर्तन-जलं मांस-असृज्-अस्थि-रस-शुक्र-स-सज-मजास्नायु-उदिते वपुषि पित्त-मरुत्-कफ-आद्यैः विकारैः चपलित-अवयवं अ-शेष रोग-अनलं शमयति ।
१ 'मज्ज' इति प्रतिभाति पदव्याख्यातः । २ छाया
त्रीणि पित्रङ्गानि प्रज्ञप्तानि, तद्यथा-अस्थि, अस्थिमज्जा, केशश्मश्रुरोमनखाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org