________________
मताम
५७
श्रीधर्मसिंहसूरिविरचितम् रोमोर्मिभिर्भुवनमातरिव त्रिवेणी
सङ्गं पवित्रयति लोकमदोऽङ्गवर्ति । विभ्राजते भगवति ! त्रिवलीपथं ते
प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ।। ३१ ॥
टीका
हे भुवनमातः !-हे जगदम्ब ! भुवनस्य माता इव माता भुवनमाता तत्सम्बोधनं हे भुवनमातः ! । यद्यप्यत्र सम्बोधनस्य प्लुतसंज्ञात्वेन सन्धेरभावस्तथाप्ययं भुवनमातःशब्दः छान्दसिकः छन्दसि तु भवतीति सन्धेर्न निषेधः, ऋचौ(चि ) भुवनमातरिति प्रयोगदर्शनात् हे जगन्मातः ! हे 'भगवति ।" भगो-ज्ञानमस्या अस्तीति भगवती तत्सम्बोधनं हे भगवति !हे ज्ञानवति ! ते तव त्रिवलीपथं-त्रिवलीमार्ग-उदरं "त्रिवली तूदरे रेखा" इति कोषः । त्रिवलीनां-उदररेखात्रयीणां पन्थाः त्रिवलीपर्थ, तवोदरं रेखात्रययुक्त मित्यर्थः । एतद् विभ्राजते-विशेषेण शोभते । हे भगवति ! अदः-त्वदीयं त्रिवलीपथं लोकं-सकलजीवलोकं पवित्रयति-पवित्रीकुरुते । सकल यो कस्य संदुदरान्तर्वर्तित्वाद् भुवनमातः इति विशेष्यपदं युक्तम् । त्वदपत्यानि सर्वे, सर्वेषां च त्वं मातेति भावः। किंविशिष्टं अदः त्रिवलीपथं ? ' अङ्गवर्ति' अङ्गे वर्तत इत्येवंशीलं अङ्गवर्ति, देहसंलग्नमित्यर्थः । कैः लोकं पवित्रयति ? रोमोमिभिः-सूक्ष्मश्यामकेशकल्लोलेः रोमाण्येव ऊर्मयः-कल्लोलास्तै रोमोमिमिः । उत्प्रेक्षते-त्रिवलीपथं किमिव ? 'त्रिवेणीसङ्गमित गङ्गायमुनासरस्वतीनां त्रयं एकत्रीभूतं इव तिस्रो वेणीभूता यस्य तीर्थस्य स त्रिवेणी तस्य सङ्ग-मिलापं त्रिवेणीसङ्गं सकलं विश्वं पवित्रीकुरुते । कैः ? ऊर्मिभिः । त्रिवलीपथं किं कुर्वत् ? त्रिजगतः-त्रिभुवनस्य 'परमेश्वरत्वं' परमेश्वरस्य भावः परमेश्वरत्वं-सर्वोत्कृष्टमहत्त्वं प्रख्यापयत्-कथयत्-त्रिभुवनजनशरण्यमिति विज्ञापयत्। अथ त्रिवेणीसङ्गमपि किं कुर्वत् ? त्रिजगतः-विश्वत्रयस्य परमेश्वरत्वं प्रख्यापयत्-प्रदर्शयत् । लोके त्रिवेणी प्रयागतीर्थम् ॥ ३१ ॥
अन्वयः (हे ) भुवन-मातः ! ( हे ) भगवति ! ते अदः अङ्ग-वर्ति त्रि-जगतः परमेश्वरत्वं प्रख्यापयत् त्रिवली-पथं त्रिवेणी-सङ्गइव रोमन्-ऊर्मिभिः लोकं पवित्रयति विभ्राजते (च)।
શબ્દાથે रोमनोभ, ३०ी.
त्रिवेणी-त्रिवी, प्रयाग ऊर्मिलोस, मो.
स-संगम. रोमोर्मिभिः-राम३५ सोलोव.
त्रिवेणीसई-त्रिवेणीना संगम. भुवन , दुनिया.
पवित्रयति-पवित्र छे. मातृ-भाता, मननी.
लोक ( मू० लोक )-ौने. भुवनमातः !-डे गम्यमा, गगनी नजानी ! अदः (मू० अदस् )मा. इव-भ.
अङ्ग-शरी२. १ 'कोशः ' इति ख-पाठः । २ 'पवित्रं कुरुते इति ख-पाटः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org