________________
सरस्वती-भक्तामरम्
[ स२पती
પદ્યાર્થ
" हे यन्द्र-भुमि (सार) ! त। अपरेमाथी (सवता ) अभूतनी वृष्टिथी सित બનેલું જગત્ શીતલતાને તેમજ સમરત (સમૃદ્ધિ, રસ અને સિદ્ધિરૂપી) અવયવોને સંપાદન કરાવનારી એવી નિષ્પત્તિને (પણ) પામે છે. (તે પછી) જળના ભાર વડે નમ્ર બનેલા એવા भेधातुं शुभ छ ?"-१८
मातस्त्वयी मम मनो रमते मनीषि
मुग्धागणे न हि तथा नियमाद् भवत्याः। स्वस्मिन्नमेयपणरोचिषि रत्नजातौ नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥
टीका दे मातः-हे लक्ष्मि ! यथा मम मनस्त्वयि रमते-रुचि लभते हि-निश्चितम् , तथाऽन्यस्मिन् मुग्धागणे-स्त्रीगणे मुह्यन्ति कामादिचेष्टास्विति मुग्धास्तासां गणः-समूहः मुग्धागणः, मनीषी चासौ मुग्धा( गण )श्च मनीषिमुग्धागणस्तस्मिन् मनीषिमुग्धागणे मम मनो न रमते-न धृति प्राप्नोति । कस्मात् ? नियमात्-निश्चयात् संयमादिगुणाराधनात, यादृशी देवीषु क तादृशी मानुपीषु धृतिरिति भावः । किंविशिष्टे मुग्धागणे ? भवत्याः-त्वत्तः त्वस्मिन्-हीने । त्वच्छन्दो हीनार्थवाचकः सर्वादिगणे प्रतीत एव, “ त्वदधरमधुरमधूनि पिबन्तः" इति प्रयोगदर्शनात् । भवत्या अयोनिजन्मत्वेनाधिक्य, मानुषीणां योनिजन्मत्वेन हीनता । अर्थान्तरेण दृष्टान्तेन दृ(द्र)ढयति-ममेव कस्यचित् परीक्षकस्य मनो रत्नजातौ त्वदुपमेयायां तु-पुनः यथा रमते। किंविशिष्टायां रत्नजातो? अमेयपणरोचिषि-बहुमूल्यकान्तौ अमेयः-प्रमाणं कर्तुमशक्यः पण:-क्रयो यस्याः सा अमेयपणा, एवंविधा रोचिः-द्युतिर्यस्यां साऽमेयपणरोचिस्तस्यां अमेयपणरोचिषि । एवं पूर्वोक्तवाक्येन मुग्धागणोपमाने 'काचशकले' काचस्य शकलं-खण्ड तस्मिन् काचशकले-काचखण्डे परीक्षकमनो न धृतिमेति । किंविशिष्टे काचशकले ? 'किरणाकुलेऽपि' किरणैः-क्षणभङ्गुराभिः चकचकितकान्तिभिः आकुलं-मिश्रितं-संमीलितं अपि-निश्रयेन किरणाकुलं तस्मिन् किरणाकुलेऽपि । अनादर एवेति भावः ॥२०॥
अन्वयः ई मातः ! ( यथा ) त्ययि मममनः रमते, तथा भवत्याः त्वस्मिन् मनीषिन्-मुग्धा-गणे नियमात् न हि (रमते)। (मम इव कस्यचित् परीक्षकस्य मनः यथा) अ-मेय-पण रोचिषि रत्न-जाती ( रमते ), एवं किरण-आकुले अपि काच-शकले तु न ।
१'यि मम ( मातर्मम त्वयि) इति क-पाठः । २'मुग्धा. मनीषि.' इति पाठः क-पुस्तके नास्ति । ३ 'मनीषि'पदरहितः पाठः क-पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org