________________
सरस्वती-भक्तामरम्
[सरस्वती
संदेहः । सा का ? यस्यास्तव वचसां-वाग्विलासानां महिमा 'मुनीन्द्रलोके' मन्यन्ते कालत्रयावस्थां इति मुनयस्तेषां इन्द्रः-परमैश्वर्याधिक्याद् गणधरो द्वादशाङ्गपाठी, स चासौ लोकश्च मुनीन्द्रलोको-गणधरजनस्तस्मिन् मुनीन्द्रलोके हेयज्ञेयोपादेयरूपेण प्रभुत्वमान् आस्ते-तिष्ठति । च-पुनर्यस्यास्तव 'तनुतेजः' तनोवर्णात्मकस्य तेजो-लिपेर्मनोज्ञन्यासरूपं तच्च मुनीन्द्रलोके आस्ते-तिष्ठति । यतो मुनयः पठनलिखनपरा भवन्तीति श्रुतिः । किंविशिष्टा त्वं ? 'स्वमतसिद्धिमही' स्वमतेजैनमते अथवा स्वमते(१)सिद्धीनां-ज्ञानादिलक्ष्मीणां मही-भूमिः-उत्पत्तिस्थानं स्वमतसिद्धिमही । अथवा सिद्धिः-मोक्षस्थानं सा चासौ मही-पृथ्वी स्वमतसिद्धिमही त्वमेव "इसिप्पन्भारा पुढवी" साऽपि शाश्वती त्वं वायूपा सिद्धिः, त्वत्तः सि(शि )लाऽपि सुलभा । अन्यच शिवोपासकानां मते सिद्धयः-अष्टसिद्धयोऽणिमादयस्तासां मही-भूमिः-उत्पत्तिस्थानं या सा स्वमतसिद्धिमही । पुनः किंविशिष्टा त्वं ? 'ज्योतिष्मयी ' प्रधान ज्योतिः-आत्मकान्तिर्यस्यां सा ज्योतिष्मयी । अत्रापि प्राधान्ये मयट् । किंविशिष्टो वचसा महिमा ? 'अतीन्द्रगिरिः' स्थैर्येणोचत्वेन अतिक्रान्त इन्द्रगिरिः( येन ) इति अतीन्द्रगिरिः-अतिक्रान्तसुमेरुपर्वतः, द्वयोरव्ययत्वात् साम्यम् । पुनः किंविशिष्टो वचसां महिमा ? 'आङ्गिरसप्रशस्यः' अङ्गिरसः ऋपेरपत्यं आङ्गिरसोबृहस्पतिर्देवः तस्यापि प्रशस्यः-प्रशंसनीयः-वर्णनीयः यः स आङ्गिरसप्रशस्यः, देवगुरुश्लाघनीय इत्यर्थः । तस्यापि वाचस्पतेरभिधेयत्वादस्या अधिकता दर्शिता । किंविशिष्टं तनुतेजः ? 'महीयः' अतिशयेन महत्-गरिष्ठं महीयः बहुविस्तारमत् । “अनन्तपारं किल शब्दशास्त्रं " इतिवचनात् शब्दवर्णानामानन्त्यात् । पुनः किंविशिष्टं तनुनेजः ? ' सूर्यातिशायि' सूर्यमतिशेते इत्येवंशीलं सूर्यातिशायि त्रैकालिकपदार्थप्रकाशकं, भानोरप्यधिकमित्यर्थः ॥ १७॥
अन्वयः (हे सति !) यस्याः (तव ) अति-इन्द्र-गिरिः, आशिरस-प्रशस्यः वचसां महिमा ( यस्याः) महीयः सूर्य-अतिशायि तनुतेजः च मुनि-इन्द्र-लोके आस्ते, (सा) स्व-मत-सिद्वि-मही ज्योतिष्मयी त्वं शाश्वती असि ।
શબ્દાર્થ यस्याः (मू० यद् )ोना.
शाश्वती-निरत२. अति-अतिभवाय अव्यय.
स्व-पोताना. इन्द्र-न्द्र, हेपाधिपति.
मत-मत, सिदान्त. गिरि-पर्वत.
सिद्धि-( १ ) समी; (२) सिद्धि-शिला; ( 3 ) अतीन्द्रगिरिः अति:न्त यो छ घन्द्रगिरि ( भे३)ने (अधिमाधि ) सम्धि. जो मेवा.
मही-पृथ्वी, उत्पत्ति-स्थान. आङ्गिरस निरस्ता पुत्र, वृहस्पति. स्वमतसिद्धिमही-स्वमतने विषे सिलिनी प्रशस्य-प्रशसा-पात्र.
मही३५. आङ्गिरसप्रशस्याहस्पतिन। प्रशसा-पात्र. महीयः (मू• महीयसू)-अतिशय मसान. त्वं (मू० युष्मद् )-तु.
ज्योतिस-आन्ति. १ ईषत्प्राग्भारा पृथ्वी । २ 'प्रकृते मयट' इति सिद्धहैमे ( अ० ५, पा० ३, सू० १)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org