________________
सरस्वती भक्तामरम्
[ सरस्वती
આ પ્રમાણેનું પેાતાને કાર્ય કરવું પડ્યું તેથી ખિન્ન થયેલા શ્રીહર્ષ ગંગા નદીના તીરે જઇ સંન્યાસી થઇ રહ્યા. કાલાન્તરે તેના સ્વર્ગવાસ થયે.
*
૨૬
*
विद्यावशा रसिकमानसलालसानां
चेतांसि यान्ति सुदृशां धृतिमिष्टमूर्ते ! ।
त्वय्यर्यमत्विषि तथैव नवोदयिन्यां
पद्माकरेषु जलजानि विकाशभाञ्जि ॥ ९ ॥
टीका
1
इष्टमूर्ते ! इष्टा- वलभा मूर्तिः संहननं - शरीरं यस्याः सा तस्याः संबोधनं हे इष्टमूर्ते ! सुहशां - सज्ज्ञानोपयोगिनां सुतरां पश्यन्तीति सुदृशस्तेषां सुदृशां चेतांसि चित्तानि त्वयि विषये धृतिं - सुखं - परमाहादत्वं यान्ति - प्राप्नुवन्ति । किंविशिष्टानां सुदृशां ? 'विद्यावशारसिकमानसलालसानां' विद्यावशानां विद्याविलासिनीनां रसिकमाने - शृङ्गारादिज्ञाने सलालसाः - सस्पृहाः विद्या० तेषां विद्यावशारसिक मानसलालसानां ' तत्पुरुषः " । ( यद्वा ) विद्यावशासु रसिकमानसेन लालसा येषां ते तेषामिति 'बहुव्रीहिः' ।(उक्तमर्थ ) अर्थान्तरेण दृ (द्र ) ढयति - तथैव त्वयीव अर्यमत्विषि-सूर्यप्रभायां जलजानि - कमलानि धृतिं यान्ति । केषु ? पद्माकरेषु तडागेषु । किंविशिष्टायां त्विषि ? नवोदयिन्यां प्रातरुदयं प्रापितायाम् । किंविशिष्टानि जलजानि ? ' विकाशभाञ्जि ' विकाशं - साहादत्वं भजन्ते इत्येवंशीलानि विकाशभाञ्जि - प्रकर्षहर्षवन्तीति चेतांसि पयोजानि चेति ॥ ९ ॥
अन्वयः
(हे ) इष्ट-मूर्ते ! विद्या - वशा - रसिक - मान-स- ( अथवा मानस - ) लालसानां सु-दृशां (विकाशभाञ्जि ) चेतांसि त्वयि धृर्ति यान्ति तथा एव पद्म-आकरेषु विकाशभाञ्जि जलजानि नव-उदयिन्यां अर्यमन्- त्विषि धृतिं यान्ति ।
શબ્દાર્થ
विद्या = विद्या.
वशा=वनिता, नारी.
रसिक - ( १ ) रससंधी; ( २ ) आनन्दित,
मान =ज्ञान.
सह- सबित.
मानस भन
Jain Education International
*
लालसा = ४२७.
विद्यावशारसिकमान सलालसानां - ( १ ) विद्या३पी નિતાના રસસંબંધી જ્ઞાનને વિષે ઇચ્છાવાળા; ( ૨ ) વિદ્યારૂપી સ્ત્રીઓને વિષે આન ંદિત મનથી અભિલાષા છે જેમને એવાના.
१ 'अयं' इत्यधिकः ख - पाठः ।
चेतांसि ( मू० चेतस् ) = थितो.
यान्ति ( धा० या ) = पामे छे.
सु-श्रेष्ठतावाय अव्यय. E=EN.
सुदृशां = सारी छे दृष्टिनी मेवा. धृतिं ( मू० धृति) = मानने. इष्ट= वस्सल, प्रिय. मूर्ति = शरीर.
इष्टमूर्ते != मिछे शरीर मेनुं मेवी । (सं० ) त्वयि ( मू० युष्मद् ) = तारे विषे. अर्थमन्= सूर्य.
For Private & Personal Use Only
www.jainelibrary.org