________________
વીરભક્તામર
[ श्रीधर्मवर्धनकृत"मरीचिरय मत्पौत्रः, स चतुर्विंशतितमतीर्थकरो भविष्यति" इति श्रुत्वा वन्दनीयोऽयं “जे' अ भविस्संतणागए काले" इति मत्वा भरतः प्रणमति स्म । “त्वन्ताथादी न पूर्वगौ" ( अभिधान-चिन्तामणी का० १, श्लो. २३) इतिवचनात् तुशब्दोऽपरसम्बन्धार्थः । गर्भस्थितं तु यं सप्तविंशे भवे मघवा-शक्रः अस्तो(पी)त् । ऋषभदत्तभार्याया देवानन्दा. ब्राह्मण्याः कुक्षौ गर्भरूपेण स्थितं हीनकुलावतारत्वेन, चलितासनः शक्रो यं (गर्भस्थितं ) अवधिना दृष्ट्वा हृष्टः सन् (शक्रः) सिंहासनात् समुत्थाय नमोत्धुणमितिस्तोत्ररचनयाऽस्तुत, ततः शक्रस्तवो जातः, सोऽद्यापि सर्वसङ्घन पठ्यते । च-पुनः, श्रेणिकादिकनृपा अपि यं तुष्टुवुः, विद्यमानस्य श्रीवीरजिनेशस्य मुख्यो नृपो भक्तः श्रीश्रेणिकः । यदाह-"सेणियनि वसिद्धाइयदेवीमायंगजक्खकयसेवेत्ति" । श्रेणिकादिकाः आदिशब्दात कोणिकोदायनादीनां ग्रहणम् । श्रेणिकादिकाश्च ते नृपाश्च श्रेणिकादिकनृपाः। यं वीरं तुष्टुवुः-स्तवनां चक्रुः, तमहमपि स्तोष्ये इति । अपिशब्दोवान्याकर्षणद्योतनार्थः। तमिति के ? प्रथमम् । ननु श्रीआदिजिनेशस्तुतौ प्रथममिति विशेषणं स्पष्टम्, चतुर्विंशतितमस्याहतः कथं प्रथममिति विशेषणं चरितार्थ स्यात् ? इत्यत आह--प्रथा-विस्तरा मा-लक्ष्मीः शोभा वा यस्य स प्रथमः । न च सर्वतीर्थकृता सामान्यमदो विशेषणमिति वाच्यम्, मातापितृभ्यां त्रिशलासिद्धार्थाभ्यां यस्य वर्धमान इति नाम कृतम् । कस्मात् ? भवने-स्वकीयवेश्मनि राज्यर्द्धिभवनात् , राज्यं "स्वाम्यमात्यसुहत्कोशराष्ट्रदुर्गवलानि च" (अमरकोशे श्लो० ७५१) इति सप्ताङ्गम्, तद्रपा ऋद्धिः, तस्या वृद्धिभवनंराज्यचिद्धिभवनं तस्मात् राज्यर्द्धि वृद्धिभवनात्, धन-धान्य-हिरण्य-कोश-कोठागारादिसर्वर्द्धिवृद्धे.
धमान इति नाम विहितम् । किंविशिष्टाभ्यां पितृभ्यां ? कृतिभ्यां-सुकृतवद्भयां धामवद्भयां वा। पुनर्यस्य वर्धमानस्य अद्य-प्रत्यक्षे पञ्चमारके काले इदं-वर्तमानं शासनं-आज्ञावचनं भूमौ-पृथिव्यां परिवर्ति-सर्वोत्कृष्टतया वर्तते । किंविशिष्टं शासनं ? भवजले-संसारजल निधौ पतता-निमज्जता जनानां-मनुष्याणां आलम्बन-अवलम्बनरूपमित्यर्थः । अत एव राज्यर्द्धिवृद्धि (भवन)त्यात प्रवर्तमा. नशासनत्वाच्च प्रथा-विस्तरा मा-लक्ष्मीः शोभा वा यस्य (स ) प्रथमस्तं प्रथम मिति एतद् विशेषणं श्रीवर्धमानस्वामिनः शासनाधीश्वरस्य सत्फलितार्थ प्रतिभाति ॥ इति काव्यद्वयार्थः ॥ १-२॥
अन्वयः भवने राज्य-ऋद्धि-वृद्धि-भवनात् यस्य श्री-वर्धमानः' इति नाम कृतिभ्यां पितृभ्यां कृतं,भव-जले पततां जनानां आलम्बनं इदं ( यस्य ) शासनं अद्य (अपि) भूमौ वरिवर्ति, यं च श्री-'आर्षभिः' (प्रथम) तृतीये भवे प्रणमति स्म, गर्भ-स्थितं तु (यं) सप्तविंशे मघवा अस्तुत, (यं) श्रेणिक'-आदिक-नृपाः भपि तुष्टुवुन, तं प्रथमं जिन-इन्द्रं अहं अपि किल स्तोष्ये ।
શબ્દાથ राज्य:04.
राज्यर्द्धिवृद्धिभवनात्-शाय-सभीनी वृद्धि पाने ऋद्धि-संपत्ति, सक्षमी. वृद्धिपधारे।
भवने ( मू० भवन )-भडेसने विषे. भवन-यQते.
पितृभ्यां (मू० पितृ) मातापिता 43. १ये च भविष्यन्ति अनागते काले (शकस्तवे)। २'श्रेणिक'नृप'सिद्धायिका देवी मातङ्ग'यक्षकृतसेवः ।
सीधे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org