________________
उपाध्यायश्रीधर्मवर्धनगणिविरचितम् ॥ वीरभक्तामरम् ॥
-~uaari('राज्यर्द्धिवृद्धि'इत्यपरनामकं स्वोपज्ञटीकासमलङ्कतम् ) अवतरणम्
श्रीआदीशस्तुतिर्यत्र, स्तोत्रं भक्तामरामिधम् । श्रीमानतुङ्गैराचार्य-विहितं सुप्रभावयुक् ॥ १॥-अनुष्टुप् तत्काव्यानां समस्ताना, तुर्यतुर्याहिसंग्रहैः । समस्यापूरणाच्छ्रेष्ठं, स्तवं वीरजिनेशितुः ॥ २॥, राज्यर्द्धिवृद्धिनामानं, चक्रे श्रीधर्मवर्धनः ।
संक्षिप्तरूपां तट्टीका, स्वोपज्ञां च सुबोधिकाम् ॥ ३॥ ,, (विशेषकम् ) अथ वीरप्रभोः पूर्वभवोल्लेखस्तन्नामसार्थकता च
राज्यर्डिवृद्धिभवनाद् भवने पितृभ्यां ___ श्री वर्धमान' इति नाम कृतं कृतिभ्याम् । यस्याद्य शासनमिदं वरिवर्ति भूमा___ वालम्बनं भवजले पततां जनानाम् ॥ १॥ सन्ततिलका (८,६) श्री'आर्षभिः' प्रणमति स्म भवे तृतीये
गर्भस्थितं तु मघवाऽस्तुत सप्तविंशे । यं 'श्रेणिका'दिकनृपा अपि तुष्टुवुश्च स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २॥,, ( युग्मम् )
टीका कविर्वक्ति । किलेति निश्चितम् । अहमपि तं जिनेन्द्रं स्तोष्ये । तमिति कं? यत्तदोरभिसम्ब. न्धात् श्रीआर्षभिः-भरतचक्रवर्ती यं प्रथम-पूर्व प्रणमति स्म । ऋषभस्यापत्यमार्षभिः । स्मयोगे भूतार्थता वक्तव्या, प्रणमति स्मेति प्रणामं चकार । कदा ? तृतीये भवे । इह किल संप्रदायःश्रीवीरस्य सप्तविंशतिर्भवाः, तत्र तृतीये मरीचिभवे भरतेन पृष्टे श्रीऋषभदेवेन प्रोक्तम्-- १विशेषक-लक्षणम्
"द्वाभ्या युग्ममिति प्रोक्तं, त्रिभिः श्लोकैविशेषकम् । कलापकं चतुर्भिः स्यात् , तदूर्ध्व कुलकं स्मृतम् ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org