SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभसूरिविरचितम् श्यामाऽप्यहं च इति वर्गमिमं विवाह भूत्याऽऽश्रितं य इह नात्मसमं करोति ॥ १० ॥ दृष्ट्वा भवं तमनिमेषविलोकनीयं नान्यत्र तोषमुपयाति मदीयचक्षुः। पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ॥ ११ ॥ राज्ञो महामृगमदाकुलमण्डलस्य दैत्यारिमार्गगमनस्य तमोऽदितस्य । चक्षुष्य ! चारुचतुराक्षिगतस्य किञ्च यत् ते समानमपरं न हि रूपमस्ति ॥ १२ ॥ त्वत्सद्वियोगवनमेव गता तथापि तीव्रातपोद्धतपराभवभाविताऽहम् । 'शैवेय' ! देव ! जलजाङ्कित ! जातमेतद् ___ यद् वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥ व्याहारमेड इव मे यदि नो शृणोषि शब्दादिकं सुखमिदं व्रज हारि हित्वा । नेतर्नरा भुवि भवन्ति गताकुशा ये कस्तान् निवारयति सञ्चरतो यथेष्टम् ? ॥ १४ ॥ ध्यानं विधेहि कुरु रैवतके तपांसि विद्धीति मां हरिसुतोऽस्थिरमाशु कर्ता । यजन्ममात्रलघुगात्रजिनांहितो नो किं मन्दराद्रिशिखरं चलितं कदाचित् ? ॥ १५ ॥ तत्रोषितं निधुवनाय समागतास्त्वां देव्यः समं सहचरैः सुतनुं समीक्ष्य । १ 'भूत्या श्रितं ' इत्यपि सम्भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004888
Book TitleKavya Sangraha Part 1
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy