SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ नेमिभक्तामरम् न स्यान्मुनीश ! लवणेशगृहीतशक्तिः ___ को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ॥ ४ ॥ भद्रं चकर्थ पशवेऽपि यथा तथा त्वं तूर्ण कृपापर ! ममैह्यसुरक्षणार्थम् । रिष्टाश्रितां खलु धवो महिलां समन्तुं ___ नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५ ॥ तीक्ष्णं वचोऽप्यभिहितं मयका हितं यत् __ तत् ते भविष्यतितरां फलवृद्धिसिद्धयै । यडेलिधाम तपतीश ! भृशं निदाघे तच्चारुचूतकलिकानिकरैकहेतुः ॥ ६॥ आगच्छ कृच्छ्रहर ! हृच्छयचित्रपुल लक्षीकृतां कृशतनुं क्षम ! रक्ष मां त्वम् । त्वत्सङ्गमे क्षयमुपैष्यति मेऽतिदुःखं सूर्याशुभिन्नमिव शावरमन्धकारम् ॥ ७ ॥ उद्यत्तडिद्घनघनाघनगर्जितेऽहि भुग्भाविते नभसि नौ नभसीन ! देहे । धर्मोत्कटादिरिव दन्तुरतां विषण्णो मुक्ताफलद्युतिमुपैति नन्दबिन्दुः ॥ ८ ॥ पश्येदृशीति सखिता मदनादरः किं ? नृत्यन् मयूरनिकरोऽब्दघटां समीक्ष्य । मैत्र्या भवन्ति भगवन् ! प्रभया प्रकर्ष पद्माकरेषु जलजानि विकाशभाजि ॥९॥ किं त्वं स नैव चल ! काऽऽगतिका तवैषा जन्याः प्रसूर्जनयिता सहजाश्च जामिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004888
Book TitleKavya Sangraha Part 1
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy