________________
(२) श्रीभावप्रभसूरिविरचितं ॥ श्रीनेमिभक्तामरम् ॥ ( नेमिसम्बोधनापरनामकम् )
-lassश्रीसरस्वत्यै नमः । श्रीइष्टदेवतायै नमः । श्रीगुरुभ्यो नमः ।
भक्तामर ! त्वदुपसेवन एव 'राजी__ मत्या' ममोत्कमनसो दृढतापनुत् त्वम् । पद्माकरो वसुकलो वसुखोऽसुखार्ता
वालम्बन भव जले पततां जनानाम् ॥ १॥-वसन्ततिलका पित्रोर्मुदे सह मयोपयमं यदीन्द्र !
नोरीकरिष्यसि तदा तव काऽत्र कीर्तिः ? । जग्राह यो हि गृहिकर्म विधाय वृत्तं
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २ ॥ रम्यं गृहं च रमणी रमणीयराढा
भोगान् समं प्रवरबन्धुजनैरपास्य ।। तारुण्ययुग् 'यदु'पते ! त्वदृतेऽङ्ग दीक्षा
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥ ३ ॥ रोर्बु क्षमो जिन ! करोऽपि ममाबलायास्त्वामुलं हि भवदागमजातवीर्यः।
१ “ इमे सूरिवर्या 'उठी सवेरा' इत्यादिकाध्यात्मिकस्तुतिं गुर्जरगिरायो रचयितारः श्रीउकेशवंशज्ञातीयवाणीगोत्रसाहाश्रीमाण्डणभार्यावाहिमदेवीकुक्षिसम्भवा" इति विशेष उपोद्घाते संयोजनीयः सुज्ञजनैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org