________________
श्रीधर्मवर्धनगणिकृतम् दुर्भिक्षकष्टदलनात् क्रियते. सदौप
कार्य कियज्जलधरैर्जलभारननैः ? ॥ १९ ॥ भगवचरणदर्शने फलाधिक्यमाह
यादृक् सुखं भवति ते चरणेऽत्र दृष्टे ___ तादृक् परर्भुवदनेऽपि न देहभाजाम् । प्राप्ते यथा सुरमणौ भवति प्रमोदो
नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥ भक्तो भगवत्सेवा प्रार्थयमाह
एवं प्रसीद जिन ! येन सदा भवेऽत्र
त्वच्छासनं लगति मे सुमनोहरं च । त्वत्सेवको भवति यः स जनो मदीयं
कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥ जिनस्य भामण्डलम्
भामण्डलं जिन ! चतुर्मुख ! दिक्चतुष्के
तुल्यं चकासदवलोक्य सभा व्यमृक्षत् । सूर्य समा अपि दिशो जनयन्ति किंवा
प्राच्येव दिग् जनयति स्फुरदंशुजालम् ? ॥ २२ ॥ लोकैर्यः शिवः शिव इति ध्यायते स भगवानेवेत्याह
शम्भूगिरीश इह दिग्वसनः स्वयम्भू
र्मृत्युञ्जयस्त्वमसि नाथ ! महादिदेवः । तेनाम्बिका निजकलत्रमकारि तत् त्वन्
नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥ २३ ॥ सर्वशास्त्राध्ययनादपि सम्यक्त्वमधिकमिति दर्शयन्नाह
जानन्ति यद्यपि चतुर्दश चारु विद्या
देशोनपूर्वदशकं च पठन्ति सार्थम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org