SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ वीरभक्तामरम् सम्यक्त्वमीश ! न धृतं तव नैव तेषां ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ पुरुषोत्तमोऽयं वीर एवेत्याह नृणां गणा गुणचणाः पतयोऽपि तेषां ये ये सुराः सुरवराः सुखदास्तकेऽपि । कृत्वाऽञ्जलिं जिन ! चरिक्रति ते स्तुतिं तदू व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५ ॥ संसारसागरशोषकाय प्रणामः रोगा झषा बहुमहामकराः कषाया श्चिन्तैव यत्र वडवाग्निरसातमम्भः । वार्धिर्भवः सर इव त्वयका कृतस्तत् तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥ २६ ॥ भगवदर्शनालामे विडम्बना यद् यस्य तस्य च जनस्य हि पारवश्य मावश्यकं जिन ! मया वरिवस्ययाऽऽप्तम् । तत् तर्कयामि बहुमोहतया मया त्वं स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ स्तनन्धयस्य भगवतो रूपस्वरूपमाह रम्येन्द्रनीलरुचिवेषभृतो जनन्याः पार्श्व श्रितस्य धयतश्च पयोधरं ते । रूपं रराज नवकाञ्चनरुक् तमोनं बिम्बं रबेरिव पयोधरपार्श्ववति ॥ २८ ॥ प्रभोर्जन्म 'इक्ष्वाकुनामनि कुले विमले विशाले सद्रत्नराजिनि विराजत उद्भवस्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004888
Book TitleKavya Sangraha Part 1
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy