________________
નૈમિભકતામર
" वासश्वर्म विभूषणं शवशिरो भस्माङ्गरागः सदा गौरेकः स च लाङ्गले त्वकुशलः सम्पत्तिरेतावती । ईशस्येत्यवत्य याति जलधिं रत्नाकरं जाह्नवी
1
कष्टं निर्धनिकस्य जीवितमहो दारैरपि त्यज्यते ॥ १ ॥ " - शार्दूल० पुनः कथंभूतस्त्वं ? ' वसुकल: ' वसुपु-द्रव्येषु कला यस्य सः, द्रव्योपार्जन कलवानित्यर्थः, अथवा वसु- धनरत्नवस्तुषु कला - शुद्धाशुद्ध परीक्षणलक्षणा यस्य सः, अथवा वसुपु-रत्नेषु उपलक्षणत्वात् ज्ञानदर्शनचारित्रेषु कला - दक्षत्वं यस्य स इति । पुनः कथंभूतस्त्वं ? ' वमुखः ' वसुभिः - तेजोभिरुपलक्षितः खः सूर्य इव वसुख:- तेजसा सूर्यस्वरूपः । एतेन तेजस्वी प्रतापवानत्यर्थः । एतैर्विशेषणैर्गृहस्थताव्यवहारः सुनिर्वाहकर उक्तः । कथंभूताया मम ? ' उत्कमनसः उत्कण्ठितं मनो यस्याः सा उत्कमनास्तस्या उत्कमनसः । कस्मिन् ? त्वदुपसेवने एव तव सेवायामेव । एवकरणं राजीमत्या निजसतीत्यख्यापनार्थम्, सुकलत्रेण गृहस्थावासः प्रशस्यत इत्युक्तम् । यथाशब्दोऽत्र गम्यः । यथा त्वं जले - जडस्वरूपे मार्गे डलयोरैक्यत्वात् पततां - पातं कुर्वतां जनानां आलम्बनं भवसि ज्ञानमार्गदायकत्वात् । अथवा यथा इ इति संबोधने हे जड ! पततां जनानां उपलक्षणत्वात् पतच्छन्दसाहचर्येण पशुशब्द गृहीतत्वात् गौरवदानार्थं तंत्रीलितानां पक्षिणां मयूरादीनां अजादीनां चासुखात सत्यां आलम्बनं भवसि । एतेन पशुपरि दयां कृत्वा त्वं पश्चाद् वलितः, परं विरहपीडिताया ममोपरि दया न धृता इति रोपोक्तिः प्रोक्ता ॥ पत्वात् वः सन्ति । ते केचिल्लिख्यन्ते - हे नेमे ! त्वं ममालम्बनं भव । व इति उपमायाम् । क इव ? पद्माकरः - तडाग इव । यथा तडागोऽसुखात तुपाक्रान्तायामवस्थायां अथवा उष्णर्तुपीडायां सत्यां जले - जलनिमित्तं पतताम् आगच्छतां जनानां मनुष्यादीनां आलम्बनं भवति । कथंभूतः पद्माकरः ? ' सुकल: सुष्ठु - शोभनानि कानि - जलानि लाति -गृह्णातीति सुकलः, स्वच्छजलधारक इत्यर्थः । पुनः कथंभूतः पद्माकरः १ व इति वरुणः, वाद् वरुणात् सुखं यस्य स वसुखः, जलस्वामित्वात्, यो यस्य स्वामी (तस्मात् ) तस्य स्वामिनः सुखं भवतीति लोकोक्तेः । अथवा हे ! त्वं आलम्बनं भव । क इव ? व इत्युपमायां सुकल इव । यथा सुकल: " अर्थव्ययज्ञः सुकलः” (का० ३ श्लो० ५१) इति है मवचनात् । दाता भोक्ता पुरुषः । असुखात - दारिद्र्यपीडायां सत्यां पतताम् आगच्छतां जनानां - याचकादीनां आलम्बनं भवति, दातृत्वात् । कथंभूतः सुकलः ? पद्माकरः- लक्ष्मीवान्, 'वसुखः ' वसुभिः - तेजोभिः खः सूर्य इव, तेजस्वीत्यर्थः । अथवा हे नेमे ! त्वं आलम्बनं भव । क इव ? सुकल इव । यथा सुष्ठु - शोभनाः कला यस्य स सुकल:- चन्द्रः । असुखात सत्यां जलेऽर्थात् अमृतपाने, निमित्तार्थे सप्तमी, अमृतपाननिमित्तं पततां जनानां अर्थात् चकोरपक्षिणां आलम्बनं भवति, तानमृतपानेन पुष्णातीत्यर्थः । कथंभूतः सुकलश्चन्द्रः ? पद्मायाः - शोभाया आकरः पद्माकरः, शोभायुक्तः । पुनः कथंभूतः सुकलचन्द्रः ? ' वसुखः ' वो रुद्रस्तस्य सुखकृत् चन्द्रभूषणत्वात् । अथवा वसुभिः किरणैरुपलक्षितं खं निजमण्डलं वसुखः । अथवा हे नेमे ! त्वं आलम्बनं भव । क इव ? व इति उपमायाम् । सुखः सूर्य इव, यथा सुष्ठु - शोभनः खः सूर्यः सुखः उपरागादिमुक्तः शुभसूर्यः । असुखात रात्रौ सञ्जातविरह
Jain Education International
For Private & Personal Use Only
૯૪
[ श्रीभावप्रभकृत
,
www.jainelibrary.org