SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ (२) श्रीभावप्रभसूरिविरचितं ॥ श्रीनेमिभक्तामरम्॥ नेमिसम्बोधनापरनामकं स्वोपज्ञवृत्तिसमलङ्कृतम् श्रीसरस्वत्यै नमः । श्रीइष्टदेवतायै नमः । श्रीगुरुभ्यो नमः । नत्वा श्रीपार्श्वनाथाय, गुरवे वाणयेऽपि च । भक्तामरस्तवान्त्यांनि-समस्यारचनाश्रितम् ॥१॥-अनुष्टुप नेमिसम्बोधनं काव्यं, कृतं यन्मयका मुदा। तस्य च क्रियते वृत्तिः, श्री भावप्रभ'मारिणा ॥ २ ॥-युग्मम् (अवतरणम् ) तत्र प्रथमकाव्ये समुद्रविजयनृपशिवादेवीपुत्र श्रीनेमिनाथे रचितविवाहसामग्रीशोभिते सपरिवारे विवाहार्थ तोरणसमीपं समागतेऽपि नानाविधपशूनां बृहत्पूत्कारं श्रुत्वा दयां विधाय तान् बन्धनात् प्रमोच्य पश्चाद् गते सति उग्रसेन राजपुत्री राजीमती प्रियवियोगजं दुःखं प्रकटयन्ती सती नेमिनं संबोधयति भक्तामर ! त्वदुपसेवन एव राजी मत्या ममोत्कमनसो दृढतापनुत् त्वम् । पद्माकरो वसुकलो वसुखोऽसुखार्तावालम्बनं भव जले पततां जनानाम् ॥ १॥-वसन्ततिलका टीका भक्ताः-सेवका अमरा-देवा यस्य स नेमिस्तस्य संबोधने हे भक्तामर ! हे नेमे ! त्वं ममराजीमत्या आलम्बनम्-आधारो भव-भवतात् । कस्यां सत्यां ? असुखातों-त्वद्विरहलक्षणपीडायां सत्यामित्यन्वयः । भक्तामरेति सातिशयसम्बोधनपदत्वेन ये यस्य सेवकास्ते तस्य सेवां कुर्वन्तीत्यतो देवानां पूज्य(ज?)कत्वान्मङ्गलशब्दोपन्यासः कृतो ज्ञेयः । अत्र श्लेषपदत्वात् भक्तायमल्लक्षणजनाय अम-विरहलक्षणं रोग राति-ददातीति हे भक्तामर ! इति रोपोक्तिसम्बोधनमपि । पुनः कथंभूतस्त्वं ? 'दृढतापनुत् ' दृढं-कठोरं ताप-विरहलक्षणं नुदति-अपनयतीति दृढतापनुत् । पुनः कथंभूतस्त्वं ? पद्माकरः-लक्ष्मीणां खानिः, लक्ष्मीवानित्यर्थः । अन्यथा विपरीतस्तु निन्द्यः । यदुक्तं १'नृपपुत्री '.इति ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004888
Book TitleKavya Sangraha Part 1
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy