________________
गुजराती भाषानी उत्क्रान्ति
सकृद् उपस्प्रक्ष्यामि इति द्विः उपस्पृशति । ततोऽपराधात् प्रवृत्ता 'गावी' - आदयो भवेयुः । न नियोगतोऽविच्छिन्नपारंपर्या एव इति " - शाबरभाष्य.
१६
यदि हि एकान्तेन यादृशः परमुखात् शब्दः श्रूयते तादृगेव सर्वेण सर्वदा उच्चार्येत ततो वृद्धव्यवहारपरम्परायां सत्यां गवादिभिरिव न गाव्यादिभिः कश्चिदपि काल: शून्य आसीत् इत्यध्यवसायाद् अनादित्वमङ्गीक्रियते ।
अपराधजस्य शब्दस्य संभवात् तु तदाशङ्कायां सत्यां नैकान्ततः सर्वेषामनादित्वम् । ' प्रयत्ननिष्पत्तेः' इति । पूर्वोक्तन्यायावधारितप्रयत्नाभिव्यक्तिरेव हेतुत्वेन उपदिश्यते । अपर आह— 'अप्रयत्ननिष्पत्तेरपराधस्य भागिता ' इति । यो हि अस्खलितप्रयत्नः शब्दम् अभिव्यनक्ति तस्य परम्परागतशब्दोच्चारणमात्रात् सर्वे समानविधाना भवेयुः । यदा तु अप्रयत्न निष्पत्तिरपि शब्दे संभाव्यते तदा तत्र अपराधजरूपान्तरापत्तिप्रसङ्गाद् न नियोगतः सर्वशब्दानां समान विधानत्वम् । अथवा शब्दविषयस्य प्रयत्नस्यैव या निष्पत्तिस्तस्यामपराधः सुनिपुणानामपि अविकलकरणानां दृश्यते किमुत अनिपुण-विगुणकरणानाम् ।
"
यश्च प्रयत्ननिष्पत्तावपराधः कृतास्पदः ।
शब्दे स तदभिव्यङ्गये प्रसजन् केन वार्यते ? ॥ अतश्चानपराधेन व्यज्यमानेषु साधुता । सापराधेष्वाधुत्वं व्यवस्थैवं च तत्कृता ॥
<c
*
*
अपराधस्य भागित्वादुभयं सावकाशकम् । साधोरनियता प्राप्तिरसाधोश्च प्रयोज्यता ॥
Jain Education International
*
एक एवायं शब्दः पुरुषाऽशक्ति - प्रमादकारणादिभेदात् तां तां वर्णन्यून - अतिरेक - क्रमान्यत्व - आदिअवस्वामुपनतस्तेन तेन अपभ्रंशरूपेण गृह्यमाणः तमेव अर्थं प्रतिपादयति इति न पर्यायकल्पनया वाचकशब्दान्तरत्वैकान्तसिद्धिः " – ( उक्तसूत्रनुं तन्त्रवार्तिक पृ० २७५ - २७६ आनन्दाश्रम )
*
*
'अशक्तिजानुकरणार्थ' :- - अशक्त्या कथंचिद् ब्राह्मण्या 'ऋतकः' इति प्रयोक्तव्ये ऌतकः ' इति प्रयुक्तम् ” ( महाभाष्य अ० शा ० पृ० ४५ )
For Private & Personal Use Only
www.jainelibrary.org