SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ૧૨૭ जैमिनीयमतस्याऽपि संक्षेपोऽयं निवेदितः । एवमास्तिकवादानां कृतं संक्षेपकीर्तनम् ॥ ७७ NAG नैयायिकमतादन्ये भेदं वैशेषिकै सह । न मन्यन्ते मते तेषां पञ्चैवाऽऽस्तिकवादिनः ॥ ७८ षष्ठदर्शनसंख्या तु पूर्यते तन्मते किल । लोकायत मतक्षेपात् कथ्यते तेन तन्मतम् ॥ ७९ लोकायतदर्शन- लोकायता वदन्त्येवं नास्ति देवो न निर्वृतिः । धर्माधर्मौ न विद्येते न फलं पुण्य-पापयोः ॥ एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद् वदन्ति बहुश्रुताः ॥ ८१ पिब खाद च जातशोभने ! यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥ ८२ किंच, पृथ्वी जलं तेजेो वायुर्भूतचतुष्टयम् । चैतन्यभूमिरेतेषां मानं त्वक्षजमेव हि ॥ पृथ्व्यादिभूतसंहत्यां तथादेहादिसंभवः । मदशक्तिः सुराङ्गेभ्यो यद्वत् तद्वत् स्थितात्मता ॥ ८४ तस्माद् दृष्टपरित्यागाद् यद् अदृष्टे प्रवर्तनम् ! लोकस्य तदविमूढत्वं चार्वाकाः प्रतिपेदिरे ॥ ८५ साध्यावृत्ति - निवृत्तिभ्यां या प्रीतिजीयते जने । निरथ सा मते तेषां सा चाऽऽकाशात् परा नहि ॥ ८६ लोकायत मतेऽप्येवं संक्षेपोऽयं निवेदितः । अभिधेयतात्पर्यार्थः पर्यालेाच्यः सुबुद्धिभिः ।। १ 'धर्मः कामात् परो नहि' इति पाठभेदः । Jain Education International For Private & Personal Use Only ८० ८३ ८७ www.jainelibrary.org
SR No.004871
Book TitleJain Darshan
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMansukhlal Mehta Mumbai
Publication Year
Total Pages304
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Religion
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy