SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ११८ तत्र परं सत्ताख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु । निश्चयतो नित्यद्रव्यवृत्तिरन्त्या विनिर्दिष्टः ॥ ६५ य इहाऽयुतसिद्धानामाधारा-ऽऽधेयभूतभावानाम् । संबन्ध इहप्रत्ययहेतुः प्रोक्तः स समवायः॥ ६६ प्रमाणं च द्विधाऽमीषां प्रत्यक्षं लैङ्गिक तथा । वैशेषिकमतस्यैवं संक्षेपः परिकीर्तितः ॥ जैमिनीय (मीमांसा) दर्शन---- जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि यस्य मानं वचो भवेत् ॥ ६८ तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टुरभावतः। नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः॥ ६९ 'अत एव पुराकार्यो वेदपाठः प्रयत्नतः । ततो धर्मस्य जिज्ञासा कर्तव्या धर्मसाधनी ॥ ७० नादनालक्षणो धर्मो नोदना तु क्रियां प्रति । प्रवर्तकं वचः प्राहु: "स्वः कामोऽग्निं यजेत् " यथा ॥७१ प्रत्यक्षमनुमानं च शाब्द चोपमया, सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥ ७२ तत्र प्रत्यक्षमक्षाणां संप्रयोगे सतां सति । आत्मनेा बुद्धि जन्मेत्यनुमानं लैङ्गिकं पुनः॥ ७३ शाब्दं शाश्वतवेदोत्थमुपमानं परिकीर्तितम् । प्रसिद्धार्थस्य साधादप्रसिद्धस्य साधनम् ॥ ७४ दृष्टार्थानुपपत्त्या तु कस्याऽप्यर्थस्य कल्पना । क्रियते यद्लेनाऽसावर्थापत्तिरुदाहृता ॥ प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्ताऽवबोधार्थ तत्राऽभावप्रमाणता !! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004871
Book TitleJain Darshan
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMansukhlal Mehta Mumbai
Publication Year
Total Pages304
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Religion
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy