SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ૧૧૮ एतानि तत्र तत्त्वानि यः श्रद्धत्ते स्थिराशयः । सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥ ५३ तथाभव्यत्वपाकेन यस्यैतत् त्रितयं भवेत्। सभ्यग्ज्ञान-क्रियायोगात् जायते मोक्षभाजनम् ॥ ५४ प्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते। अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ॥ ५५ अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानमीदृशम् । ... प्रत्यक्षमितरत् ज्ञेयं परेराक्षं ग्रहणेक्षया ॥ ५६ .. येनेोत्पाद-व्यय-ग्रीव्ययुक्तं यत् सत् तदिष्यते । अनन्तधर्मकं वस्तु तेनोक्तं मानगोचरः ॥ ५७ जैनदर्शनसंक्षेप इत्येष कथितोऽनवः। पूर्वापरविद्यातस्तु यत्र क्वापि न विद्यते ॥ वैशेषिकदर्शन ..... देवताविषये भेदी नास्ति नैयायिकैः समम् । वैशेषिकाणां तत्त्वे तु विद्यतेऽसौ निदश्यते ॥ ५९ द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् । विशेष-समवायौ च तत्त्वषट्कं हि तन्मते ॥ ६० तत्र द्रव्यं नवधा भू-जल-तेजो-ऽनिला--ऽन्तरिक्षाणि । काल-दिग्-आत्म मनांसि च गुणः पुनः पञ्चविंशतिधा॥६१ स्पर्श-रस-रूप-गन्धाः शब्दः संख्या विभाग-संयोगौ। परिमाणं च पृथक्वं तथा परत्वा-ऽपरत्वे च ॥ ६२ बुद्धिः सुख-दुःखे-च्छा धर्मा-ऽधर्मी प्रयत्न-संस्कारी। द्वेषः स्नेह-गुरुत्वे द्रवत्व-वेगौ गुणा एते ॥ ६३ उत्क्षेपा-ऽवक्षेपो आकुञ्चनकं प्रसारणं गमनम् । पञ्चविधं कमैतत् परा-ऽपरे द्वे तु सामान्ये ॥ ६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004871
Book TitleJain Darshan
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMansukhlal Mehta Mumbai
Publication Year
Total Pages304
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Religion
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy