________________
११७ पञ्चविंशतितत्त्वानि संख्ययैवं भवन्ति च ।। प्रधान-नरयोश्चात्र वृत्तिः पङ्गु-अन्धयोरिव ॥ ४२ प्रकृति-वियोगा मोक्षः पुरुषस्यैवाऽऽन्तरज्ञानात् । मानत्रितयं च भवेत् प्रत्यक्षं लैङ्गिक शाब्दम् ॥ ४३
एवं सांख्यमतस्याऽपि समासः कथितोऽधुना। जैनदर्शन--
जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ।। जिनेन्द्रो देवता तत्र राग-द्वेष विवर्जितः । हतमोहमहामल्लः केवलज्ञान-दर्शनः ॥ मुरा-ऽसुरेन्द्रसंपूज्यः सद्धृतार्थोपदेशकः । कृत्स्नकर्मक्षयं कृत्वा संप्राप्तः परमं पदम् ॥ ४६ जीवाज्जीवी तथा पुण्यं पापमाश्रव-संवरौ । बन्धश्च निर्जरा-माक्षी नव तत्त्वानि तन्मते ॥ ४७ तत्र ज्ञानादिधर्मभ्या भिन्नाभिन्नो विवृत्तिमान् । शुभा-ऽशुभकर्मकर्ती भोक्ता कर्मफलस्य च ॥ ४८ चैतन्यलक्षणो जीवः यश्चैतविपरीतवान् । अजीवः स समाख्यातः पुण्यं सत्कर्म पुद्गलाः ॥ ४९
युग्मम् पॉपं च तद्विपरीतं तु मिथ्यात्वाद्याश्च हेतवः । यस्तैबन्धः स विज्ञेयः आवो जिनशासने॥ ५० संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मणः । अन्यान्यानुगमात् कर्मसंबन्धो यो द्वयोरपि ॥ ५१ बद्धस्य कर्मणः शाटः --यस्तु सा निर्जरा मता। .. भात्यन्तिको वियोगस्तु देहार्मोक्ष उच्यते ॥ ५९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org