________________
૧૧૫
पूर्ववत् शेषवत् चैव दृष्टं सामान्यतस्तथा। तत्राऽऽद्यं कारणात् कार्यानुमानमिह गीयते ॥ १९ रोलम्ब-गवल-व्याल-तमालमलिनत्विषः।। दृष्टिं व्यभिचरन्तीह नैवप्रायाः पयोमुचः॥ २० कार्यात् कारणानुमानं यच्च तत् शेषवद् मतम् । तथाविधनदीपूरात् मेघो वृष्टो यथोपरि ॥ २१ यञ्च सामान्यता दृष्टं तदेवं गतिपूर्विका। पुंसि देशान्तरप्राप्तियथा सूर्येऽपि सा तथा ॥ २२ प्रसिद्धवस्तुसाधादप्रसिद्धस्य साधनम् । उपमानं समाख्यातं यथा गार्गवयस्तथा ॥ २३ शाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम् । प्रमेयं त्वात्म-देहाद्यं बुद्धि-इन्द्रिय-सुखादि च ॥ २४ किमेतद्-इति संदिग्धः प्रत्ययः संशया मतः । प्रवर्तते यदर्थित्वात् तत् तु साध्यं प्रयोजनम् ॥ २५ दृष्टान्तस्तु भबेदेष विवादविषयो न यः ।.. सिदान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥ . २६ प्रतिज्ञा-हेतु-दृष्टान्तो-पनया निगमस्तथा। अवयवाः पञ्च तर्कः संशयोपरमे भवेत् ॥ .. २७ यथा काकादिसंपातात् स्थाणुना भाव्यमत्र हि । ऊर्ध्व संदेह-ताभ्यां प्रत्ययो निर्णयो मतः॥ २८ आचार्य-शिष्ययाः पक्ष- प्रतिपक्षपरिग्रहात् । या कथाऽभ्यासहेतुः स्यादसौ वाद उदाहृतः ॥ २९ विजिगीषुकथा या तु छल-जात्यादिदूषणम् ।। स जल्पः सा वितण्डा तु या प्रतिपक्षवजिता॥ ३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org