SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ મહાવીર-જીવનનો મહિમા - ૨૭ एताः पूर्वरुचकादेत्य विलोकनार्थं दर्पणमग्रे धरन्ति । एताश्च सामानिकानां प्रत्येकं चत्वारिंशच्छतैर्युताः । महत्तराभिः प्रत्येकं तथा चतसृभिर्युताः ॥ अङ्गरक्षैः षोडशभिः सहस्त्रैः सप्तभिस्तथा । कटकैस्तदधीशैश्च सुरैश्चान्यैर्महद्धिभिः ।।२०।। શ્રી મહાવીર ભગવાનના અતિશયો ४. खे धर्मचक्रं चमराः सपादपीठं मृगेन्द्रासनमुज्वलं च । छत्रत्रयं रत्नमयध्वजोंहिन्यासे च चामिकरपङ्कजानि ॥" अभिधानचिन्तामणि कांड १ श्लो० ६१ ललितविस्तर १. "किं कारणं हि भिक्षवः ! बोधिसत्त्वः कुलविलोकितं विलोकयति स्म ? न बोधिसत्त्वा हीनकुलेषु उपपद्यन्ते चण्डालकुलेषु वा वेणुकारकुलेषु वा रथकारकुलेषु वा पुक्कसकुलेषु वा । अथ तर्हि कुलद्वये एव उपपद्यन्ते-ब्राह्मणकुले, क्षत्रियकुले च । तत्र यदा ब्राह्मणगुरुको लोको भवति तदा ब्राह्मणकुलेषु उप०, यदा क्षत्रियगुरुको लोको भवति तदा क्षत्रियकुले उपपद्यन्ते ॥" पृ० २१ २ “यदा बोधिसत्त्वश्चरमभविको जायते यदा च अनुत्तरां सम्यक्संबोधिमभिसंबध्यते तदा अस्य इमानि एवंरूपाणि ऋद्धिप्रातिहार्याणि भवन्ति "तस्मिन् खलु पुनर्भिक्षवः ! समये संहर्षितरोमकूपजाताः सर्वसत्त्वा अभूवन् । महतश्च पृथिवीचालस्य लोके प्रादुर्भावोऽभूत् भैरवस्य रोमहर्षणस्य । अघट्टितानि च दिव्यमानुष्यकाणि तूर्याणि संप्रवादितानि सर्वर्तुकालिकाश्च वृक्षास्तस्मिन् x संकुसुमिताः फलिताश्च । विशुद्धाच्च गगनतलात् मेघशब्दः श्रूयते स्म । अपगतमेघाच्च गगनाच्छनैः सूक्ष्मसूक्ष्मो देवः प्रवर्षति स्म । नानादिव्यकुसुमवस्त्रआभरण-गन्ध-चूर्ण-व्यामिश्राः परमसुखसंस्पर्शाश्च सौम्याः सुगन्धवाताः प्रवान्ति स्म । व्यपगततमोरजो-धूमनिहाराश्च सर्वा दिश सुप्रसन्ना विराजन्ते स्म । उपरिष्टाच्चान्तरिक्षाद् अदृश्या गम्भीरा महाब्रह्मघोषा श्रूयन्ते स्म । सर्वेन्द्र-सूर्य-शक-ब्रह्म-लोकपालप्रभाश्चामिभूता अभवन् । Xxxx सर्वा अकुशलक्रियाः प्रतिविरताः । व्याधितानां सत्त्वानां व्याधयः उपशान्ताः । क्षुत्पिपासार्तानां स० क्षुत्पिपासा प्रस्रब्धा अभूवन् । मद्यमदमत्तानां च स० मदापगमः संवृत्तः उन्मत्तैश्च स्मृतिः प्रतिलब्धा । चक्षुर्विकलैश्च स० चक्षुः प्रतिलब्धम् । श्रोतोविकलैश्च स. श्रोतः । मुखप्रत्यङ्ग-विकलेन्द्रियाश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004849
Book TitleSangiti
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year2003
Total Pages306
LanguageGujarati
ClassificationBook_Gujarati & Articles
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy