SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ विरचिता ] ऋषभपञ्चाशिका. मुणिणो वि तुहीणा, नमिविनमी खेअराहिवा जाया । गुरुआण चलणसेवा, न निष्फला होइ कइआ वि ॥ १४ ॥ [ मुनेरपि तवालीनौ नमिविनमी खेचराधिपौ जातौ । गुरुकाणां चरणसेवा न निष्फला भवति कदापि ॥ ] प्र० वृ० - मुणिणो वित्ति । हे विश्वजनीन ! तव मुनेरपि - लोकोत्तरमार्ग प्रतिपन्नस्यापि आलीनौ - समाश्रितौ नमिविनमी खेचरचक्रवर्तिनौ जाताविति । काविमौ नमिविनमी ? उच्यते-भगवता सह प्रतिपन्नत्रतयोः कच्छमहाकच्छसामन्तयोः सुतौ । तौ च जगद्गुरुणा साम्राज्यावस्थास्थितेन कस्मिंश्चिदनन्यसाध्यकार्ये प्रहितावभूताम् । प्रव्रजिते च भुवनभर्तरि तौ ततः प्राच्यजनिविवृत्तौ (?) निशम्य भद्रपीठप्रतिष्ठितं भरतं छद्मस्थावस्थाविहारिणः स्वामिनः समीपमुपगतौ । यत्र च जगद्गुरुः प्रतिमयाऽवतिष्ठते तं प्रदेशं अपनीततृणकाष्ठकण्टकमलं सलिलच्छोटितमुन्मुक्त पञ्चवर्णप्रसूनपटलमुपप्रातरेवावनितललुठितमस्तकौ स्वामिन्! राज्यप्रदो भवेति । एवं चातिक्रामति अन्यदा पातालपतिः तौ वीक्ष्य प्रभुदृढभक्तिभरौ रोहिणी-प्रज्ञती -पुरस्सराः षोडशापि महाविद्याः ससम्प्रदायं प्रदाय रजतभूधरं च निवासवसुमतीं सन्दिश्य प्रणम्य च स्वामिनमुरगपतिस्तिरोबभूव । सफलीभूत भगवदुपास्ती युगादिजिनं प्रणम्य विमानस्थौ स्वजनमण्डलपरिकलितौ वैताढ्यं जग्मतुः । तत्र प्रथमविद्याधराधिपौ जातौ । मुनेरपि तवालीनौ एवंविधां श्रियमशिश्रियतुः इति न चित्रं, गुरूणां - त्रिभुवनमहनीयचरितानां चरणसेवा - निश्छद्ममुपासना कदाचिदपि - कस्मिन्नपि काले निष्फला - फलविकला न भवति ॥ इति चतुर्दशगाथार्थः ॥ १४ ॥ हे० वि०-महञ्चरणसेवायाः फलदर्शनद्वारेण स्तुतिमाह - ( मुणिण वित्ति ) । मुनेरपि-व्रतिनोपि तवाश्रितौ - भवदाश्लिष्टौ नमिविनमी भरततनयकच्छ महाकच्छपुत्रौ खेचराधिपौ-विद्याधरनायकौ जातौ - सम्पन्नौ । यद्वा किमाश्चर्यं ? गुरुकाणां - महतां चरणसेवा - पादपर्युपासना नैव निष्फला - फलरहिता भवति कदापि - कस्मिन्नपि काले इति भावार्थः ॥ १४ ॥ मुणिणो ( मुनेः ) = भुनिना. far (aft)=421. ફા શબ્દાર્થ तुहलीणा = तारे विषे सीन अनेसा नमि (नमि ) = नभि, २ साभन्तना पुत्र. विनमि ( विनमि ) = विनभि, भा२छ साभन्तना तुह (तव )=तारा. लीणा ( लीनौ )= सीन, आसत. पुत्र. १ प्राज्याजनावि०' इत्यपि पाठः । २ 'पुरुषाणां' इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy