________________
५७
विरपिता]
ऋषभपश्चाशिका.
સ્પષ્ટીકરણ ગષભદેવે કરેલ કેશ-લેચ–
દરેક તીર્થંકર દીક્ષા લે તે વખતે પંચ-મુષ્ટિ–લોચ કરે છે. અર્થાત્ પ્રથમ મુષ્ટિ વડે દાઢી-મૂછના વાળનો લોચ કરે છે, જ્યારે બાકીની ચાર મુષ્ટિથી માથા ઉપરના વાળનો લોચ કરે છે, પરંતુ શ્રીષભદેવ ચાર મુષ્ટિ લોન્ચ કર્યા બાદ માથા ઉપરના બાકીના કેશનો પંચમ મુષ્ટિ વડે લોન્ચ કરવા જતા હતા, તેવામાં ઈન્ટે તેમને એટલા કેશ રહેવા દેવા વિનતિ કરી, તેથી તેમણે તે રહેવા દીધા. આ વાતની નીચેનાં પો સાક્ષી પૂરે છે –
"मुष्टिना पञ्चमेनाथ, शेषान् केशान् जगत्पतिः । समुच्चिखनिषन्नेवं, ययाचे नमुचिद्विषा ॥ नाथ! त्वदंशयोः स्वर्ण-रुचोर्मरकतोपमा । वातानीता विभात्येषा, तदास्तां केशवल्लरी ॥ तथैव धारयामास, तामीशः केशवल्लरीम् । याच्यामेकान्तभक्तानां, स्वामिनः खण्डयन्ति न ॥"
-त्रिषष्टि५३५यरित्र (५० १, ४० 3, Aयो० १६-७३)
साम्प्रतं भगवतश्छद्मस्थविहारमधिकृत्याह
उवसामिआ अणज्जा, देसेसु तए पवन्नमोणेणं । अभणंत चिअ कजं, परस्स साहति सप्पुरिसा ॥ १३ ॥ [उपशमिता अनार्या देशेषु त्वया प्रपन्नमौनेन ।
अभणन्त एव कार्य परस्य साधयन्ति सत्पुरुषाः॥] प्र० वृ०-उवसामिअत्ति । हे भुवनभर्तः! त्वया देशेषु विहरता अनार्या जीवा उपशमं नीता इति तत्रानार्यदेशेषु । तथा न विद्यते आर्यत्वं धर्माधर्महेयोपादेयभक्ष्याभक्ष्यपेयापेयगम्यागम्यादिविचारलक्षणं येषां ते अनार्याः तान् तथाविधान् पशुप्रायान् लोकान् त्वमुपशमं नीतवान्-किञ्चित् कषायकालुष्यं त्याजितवान् । किं धर्मोपदेशेन शमं प्रापिता इत्याह-'प्रपन्नमौनेन' अङ्गीकृतवाक्संयमेन । यद्येवं तत् कथं उपकारः सम्भवति इत्याह-सत्पुरुषाः-पुरुषपुण्डरीकाः परस्यापि-आत्मव्यतिरिक्तस्यापि कार्य समीहितं साधयन्ति-निष्पत्तिं प्रापयन्ति, तत् किं वाग्डम्बरेण? अभाषमाणा एव । स्वभावश्च तेषामीदृशः ॥ इति त्रयोदशगाथार्थः ॥ १३ ॥ हे० वि०-विहारमुद्दिश्य स्तुतिमाह-(उवसामिअत्ति)। हे भगवन् ! त्वयोपशमिता-उपशमं ग्राहिताः । के? अनार्या:-म्लेच्छाः । केष्वित्याह
*प. ८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org