________________
महाकविश्रीधनपालविरचिता ॥ श्रीवीरस्तुतिः ॥ (विरोधालङ्कारमण्डिता)
सावचूर्णिः
निम्मलनहे वि अणहे जिणाण चलणुप्पले पणमिऊणं ।
वीरमविरुद्धवयणं थुणामि सविरुद्धवयणमहं ॥ १ ॥ [निर्मलनखान्यपि अनखानि (अनघानि) जिनानां चरणोत्पलानि प्रणम्य । वीरमविरुद्धवचनं स्तौमि सविरुद्धवचनमहम् (सवि०वचनमथम्)॥]
अवचूर्णिः निर्मलेति । निर्मलनखान्यपि अनखानि । अविरुद्धवचनमपि सविरुद्धवचनम् । जिनानां चरणोत्पलानि प्रणम्य वीरं स्तौमीति सम्बन्धो विरोधपक्षे । परिहारपक्षे तु विरोधोत्थापकान्येव पदान्यन्यथा व्याख्येयानि । शेषाणि (तु} पूर्ववदिति सर्वत्र द्रष्टव्यम् । तत्र न विद्यते अघं-व्यसनं वा पापं येषां तान्यनघानि । तथा सह विरुद्धेन-विरुद्धालङ्कारसारवचनेन वर्तते तद् यथा {भवति तथा स्तौमीति क्रियाविशेषणम् । अनेन विरोधालङ्कारालङ्कृतेयं स्तुतिरिति कथयति । तथाहि
"विरुद्धानां पदार्थानां, यत्र संसर्गदर्शनम् ।
विशेषदर्शनायैव, स विरोधः स्मृतो यथा ॥ १॥" इति विरोधलक्षणम् । तच्चास्यां {स्तुतौ} समस्तीति ॥ १॥
१ 'पणमिऊण' इति घ-पाठः। २ 'व्याख्यायान्ति' इति क-पाठः, 'व्याख्यायन्ते' इति तु ग-पाठः । ३ एतच्चिद्देन सूच्यते मुख्यतया क-प्रतेः पाठाधिक्यम्। ४'श्रुतिरिति' इति ख-ग-पाठः। ५ 'समस्तमस्तीति' इति ख-ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org