SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ विरचिता] ऋषभपञ्चाशिका. १८४ ने० अ०-अधुनोपसंहरन्नाह-इय० । इति-उक्तेन प्रकारेण स्तुतो-नमस्कृतो मया । किंविधेन ? बालबुद्धिना-अतिमन्दमतिनाऽपि । ध्यानाग्निना प्रदीपितं-ज्वालितं कर्मलक्षणमिन्धनं येन स तथा तस्यामत्रणम् । भवभयसमुद्रबोहित्थ !-संसारोपद्रवयानपात्र! बोधिफलं यस्मात् तत् तथा । भक्त्या-विशिष्टभावेन अनया च वक्रोक्त्या कविरात्मनोऽभिधानं दर्शयति धण(न)पाल इति ॥ ५० ॥ श्रीधनपालकृतिर्गणिना विवृतेह नेमिचन्द्रेण । बोधिनिमित्तं इति श्रीऋषभपञ्चाशिकावचूरिः समाप्ता ॥ छ । चि० अ०-इदानीं स्तुतिकृताशंसारूपां भङ्गयन्तरेण स्वनामगर्भा चापश्चिमां परिसमाप्तिगाथामाह-इअ झाण । हे ध्यानाग्निप्रदीपितकर्मेन्धन! 'इय' । ध्यानाग्निना दीपितानि कर्माण्येवैधांसि येन सः । बालबुद्धिनाऽपि मया भक्त्या स्तुतः वाला-तन्वी बुद्धिर्यस्य स तेन । किंविशिष्टस्त्वम् ? थुओ-स्तुतः । केन ? मया । त्वं हे भव(भय)समुद्रबोहित्थ ! त्वं मम प्रति बोधिफलो भव । तत्र बोधिः-सम्यक्त्वावाप्तिः एवं फलं यस्मात् इति बोधिफलः ॥ ५० ॥ ॥ इति ऋषभपश्चाशिकाऽवचूर्णिः समाप्ता ॥ लिखिता भट्टारकप्रभुश्रीश्रीश्रीसोमदेव सूरिशिष्याणुचारित्रमगणिना स्वपरोपकाराय श्रीमति 'श्रीसीरोहीनगरे । संवत् १५२६ वर्षे ॥ शुभं भवतु लेखकपाठकयोः ॥ पू० अ०-बालस्येव चातुर्यरहिता बुद्धिर्यस्य यद्वा बाला-तन्वी बुद्धिर्यस्य । बोधिः-जिनधर्मावाप्तिस्तां फलति बोधिफलः स त्वमेवंविधः, भवभयमेव अलब्धमध्यत्वेन सुदुस्तरत्वेन समुद्रस्तत्र बोहित्थं-प्रवहणम् ॥५०॥ इति पण्डितश्रीधनपालकविविरचिता ऋषभपंचाशिकाऽवचूरिसमेता सम्पूर्णा ॥ १ अन्तिमगाथानान्ते तु उल्लेखोऽयम् "इति श्रीऋषभपंचाशिकासूत्रं संपूर्ण पण्डितधनपालविरचितं ॥ लिखितं पं.ज्ञानभद्रगणिशिष्यलावण्यप्रियमुनिना सं. १५३५ वर्षे मार्ग शुदि ७ खरसुदग्रामे ॥छ॥ २ बोहित्थशब्दसम्बन्धिनी विचारणा कृताऽनुवादे मया पूर्व, परं तदानीं नैव कोपोलेखः प्रदत्तस्तन्त्र, अधुना सम्प्राप्तः सः, यथाहि___“वोहित्थं वहनं पोतः" इति (अभि० का० ३, श्लो० ५४०), " वोहित्थं तु प्रवहणे" इति वैजयन्तीकोशेऽपि (पृ. १५५, श्लो० १५)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy