________________
૧૯૮ अवचूरिचतुष्टयसमेता
[श्रीधनपालचि० अ०-एवमतीतकालाद्यनुभूतमात्मनः स्वरूपमभिधाय वर्तमानविषयमाह-भमिओ। हे नाथ! अहं सम्भ्रान्तः-पर्यटितः तस्मिंश्च भवे अहं अनन्तकालं भ्रान्तः दुःखेभ्यः, तथापि बम्भ्राम्यमाणः न मनागपि भीतः। सम्प्रति च त्वयि दृष्टे-देवत्वेन मनसि स्थापिते तेभ्यो दुःखेभ्यो भयं ज्ञा(जा)तम् , पलायितं च नष्टं च । चशब्दौ तुल्यकालवचनौ ॥ ४८ ॥
पू० अ०-संसारे अनन्तकालं भ्रान्तस्तत्र च दुःखेभ्यो न भीतः । साम्प्रतं त्वयि दृष्टे जातं भयं पलायितम् । चौ तुल्यकालवाचकौ । कोपादिभिरित्थं विडम्बित इति जातं (भयं ), इत्थं शमादिभिर्निराकरिष्ये इति गतं चेत्यर्थः ॥ ४८॥
ध० अ०-अथ कवि कीधी स्तुतिनूं ध्यान बोलई । हे जगद्गुरो ! यद्यपि त्वं कृतार्थः यद्यपि त्वं मध्यस्थस्तथा प्रार्थये। हे जगद्गुरु ! यद्यपि तूं कृतार्थ यद्यपि तूं मध्यस्थ तथापि प्रार्थउं । पुनरपि कदाप्यस्माकं आत्मानं दर्शयेः । वली किवार तूं आपणपूं दिषाडिजे ॥४९॥
ने० अ०-साम्प्रतं स्तुतिविधानमाह-जइवि० । हे जगद्गुरो ! यद्यपि कृतो मुक्तिगमनलक्षणेऽर्थे प्रयोजनं येन, मध्ये-रक्तद्विष्टमढेरस्प(स्पृ?)ष्टैरनन्तरालवर्तिन्यवस्थाविशेषे चिदात्मनि स्वस्वरूपे तिष्ठतीति मध्यस्थः-समभावस्तथापि प्रार्थयामि-याचेऽहम् । किम् ? दापयेः-दर्शयेः आत्मानं पुनरप्यागामिकाले क(सिं)श्चित् कथञ्चित् असाकं करुणाहाणाम् ॥ ४९ ॥
चि० अ०-अथ प्रार्थनारूपां स्तुतिमाह-जइवि० । यद्यपि कृतो-निष्ठितोऽर्थः-प्रयोजनं येन स कृतार्थः, यद्यपि मध्यस्थः-उदासीनश्च तथापि प्रार्थयामि-कइया वि-कदाचिदपि कस्मिश्च देशे काले वा पुनरपि त्वमस्माकं आत्मानं दाविजसु-दर्शनप्रदानेन प्रसादं कुर्याः ॥ ४९ ॥ .. पू० अ०-यद्यपि कृतोऽर्थः-प्रयोजनं येन सः। रागद्वेषान्तरालवर्तिनि मध्ये चिदात्मनि स्वखरूपे तिष्ठतीति मध्यस्थः । य एवंविधः स कथं अप्रार्थितः परार्थाय यतते इत्यतः प्रार्थयामि इत्युक्तं प्रार्थनामाहकदाचिदपि कस्मिंश्चिद् देशे काले वा पुनः पुनरात्मानं दर्शय ॥ ४९॥
ध० अ०-ध्यानाग्निप्रदीप्तकर्मेन्धन ! इति-अमुना प्रकारेण मया बालबुद्धिना-मूर्खेण भत्त्या त्वं स्तुतः। ध्यानरूपीइं अग्निज्वालूं कर्मरूप इंधण तूं इति-ईणंइ प्रकारिइ मई बालबुद्धिइं-मूर्खबुद्धिइं भक्तिइं सूचिओ अथवा धणपालबुद्धि धणपाल कविनी बुद्धिइं स्तव्युं । हे भवभयसमुद्रबोहित्थबोधिफल! भव-संसाररूप समुद्रनइं प्रवहण समान बोधिसम्यक्त्व तत्त्वावबोधनूं फल एवंविध छई ॥ ५० ॥ इति श्रीधर्मशेषरमहोपाध्यायविरचिता बालावबोधाय ऋषभपञ्चाशिका(याः)
संस्कृतप्राकृतावचूरिः सम्पूर्णा ॥ छ ॥ छ ।
ग्रन्थसङ्ख्या ३३६'. . 'अक्षर ८ श्लोकसङ्ख्या श्रीमदंचलगच्छे पुस्तिका ॥छ।' इत्यधिकः ख-पाठः ।
Jain Education International
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org