________________
विरचिता] ऋषभपञ्चाशिका.
૧૯૭ इव घटीसंस्थानावसर्पिण्युत्सर्पिणीभिः परिगताः । अरहट्टनी परि घटीनई संस्थानि उत्सर्पिणी अवसर्पिणीए परिगत-युक्त छइं ॥ ४७ ॥
ने० अ०-अधुना यावन्तं कालं नरकादिगतिषु भ्रान्तस्तावन्तं कालं दर्शयन्नाह-सिंचं० । सिञ्चता-अभिषेकं कुर्वता, मयेति गम्यते । भववनं-संसारकाननम् । एकत्र मुख्यजलेन, अन्यत्र मिथ्यात्वाऽविरति-कपाय-प्रमादादिदुष्टयोगरूपजलेन पल्लट्टा-जलपरावर्ताः पेल्लया प्रेरिता-अतिवाहिताः । क इव ? अरघट्ट इत्र । कथम्भूताः ? घटीसंस्थानावसर्पिण्युत्सर्पिण्यस्ताभिः परिगताःसमेताः बहुशः-अनेकशः प्रेरिताः । यथा (अर)घट्टिको वनं सिञ्चन् अरघट्टिकपरिवान् बहुशः परिवर्तयति ॥४७॥
चि० अ०-सिंचंतेण । हे जिन ! मया परिवर्ता इति एकदेशे समुदायो)पचारात् पुद्गलपरावर्ताः पर्यस्ताः-प्रेरिता अतिवाहिताः । कीदृशा? घटीसंस्थानेन-आनुपूर्त्यां पतिक्रमेण परिवर्तमानाभिरुत्सर्पिण्यवसर्पिणीभिः परिगताः-समेताः । बहुशः-अनन्ताः । किं कुर्वाणेन मया इत्याहभव एव चतुर्गतिगतासङ्ख्यदुःखशाखिभिः सङ्कुलत्वेन वनमिव वनं, ततः सिञ्चता-आश्रवद्वारेण सङ्गलितैः पापाम्बुभिः अभिषिच्य वृद्धि नयता । केनेव मया ? अरघट्टकेनेव । अरघट्टको हि वनमभिषिञ्चन् अरघट्टपरिवर्तान् बहु परिवर्त्तयति, तत्र घटीमालामूलादारभ्य पर्यवसानपर्यन्त एकः परावतः । तेऽप्यानुपूा स्थिताभिर्घटीभिरुपेताः स्युः, वहूंश्च तानरघट्टकोऽतिवाहयति ॥ ४७ ॥
पू० अ०-मयाऽरघट्टकेनेव ए(पदै)कदेशे समुदायोपचारात् परिवर्ताः पुद्गलपरावर्ता अतिवाहिताः घटीसंस्थानेन परिवर्तमानाभिरुत्सर्पिण्यवसर्पिणीभिः परिगताः-समेताः । भववनमभिषिञ्चता अरघट्टकोऽपि वनं अभिषिञ्चन्नरघट्टपरावर्तान् बहुशः परिवर्तयति । तत्र घटिमालामूलादारभ्य पर्यवसानपर्यन्त एकः परावर्त्तः । तेऽप्यानुपूर्व्या स्थिताभिर्घटीभिरुपेताः स्युः ॥ ४७ ॥
ध० अ० हे नाथ ! अहं अनन्तकालं भवे-संसारे भ्रान्तो जन्म-जरा-मरणलक्षणेभ्यो दुःखेभ्यो न भीतः। हे नाथ ! हउं अनंत काल भव-संसार माहि भम्यु जन्म-जरा-मरणलक्षणरूप दुःखनु बीहनउ नहीं । सम्प्रति हे नाथ! त्वयि दृष्टे सति जन्मादिभयं जातं च पलायितं च । हे स्वामी! तई हिवडां दीठई हूंतइं जन्मादिक भय संपन्नं इदं पलायितंनाठउं ॥४८॥
ने० अ०-(भमिउं० ) । हे नाथ! भ्रान्तोऽनन्तकालं जीवस्य अनन्तादिकालव्यवस्थितत्वात् भवे-संसारे न श्रान्तः दुःखेभ्यो न भीतो-न त्रस्तः, दुःखानां जन्ममरणादिरूपाणाम् । साम्प्रतं तु कषायादिभिरहमित्थं विडम्वितः । पुनर्विवेककुशलत्वात् त्वयि दृष्टे जातं-समुत्पन्न भयं पलायितं-नष्टं च । चौ तुल्यकालवाचिनौ । ये हि भगवन्तं सम्यक् पश्यन्ति, तेऽवश्यं लघुसंसारिणो भवन्ति इत्यागमवचनानिश्चीयते ॥४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org