________________
१८९ अवचूरिचतुष्टयसमेता
[श्रीधनपाल.. चि० अ०-अंतो० । हे जिन! मनुष्यभवनाटकेषु मयाऽङ्काः शून्यानि]-विरहिताः। शून्यत्वे विशेषणद्वारेण हेतुमाह-तैः । कीदृशैः ? अन्तर्-मध्यादुत्सङ्गस्यैव निष्क्रान्तैरायुःक्षयेण । इदमत्र तात्पर्यम्-नरजन्मन्युत्पन्नेन मया प्रियकलत्रपुत्रादिवियोगजं दुःखमनुभूतमिति । नाटकेष्वपि विष्कम्भकसूचिताभियेनवस्तुसमाप्तिरूपा ह्यङ्कास्ते च रङ्गाङ्गणमध्यान्निष्कामद्भिः चतुर्विधाभिनयनिपुणैरभिनायकपात्रैः शून्याः स्युरिति ॥ ४५ ॥
पू० अ०-हे देव ! इह संसाररङ्गान्तरे सर्वत्राखण्डिताज्ञस्य मोहनरेशस्य पुरः कर्मपरिणामसूत्रधारेण चतुर्गतिनाटकान्यभिधीयन्ते । तन्मध्याच अभिनीयमानेषु मनुष्यगतिरेव तत्तदवस्थाविशेषानुभूयमानशृङ्गारादिरसात्मकत्वेन नाटकानीव तेषु मनुष्यगतिनाटकेषु नरभवेषु उत्पन्नेन मया अङ्कात्-सङ्गात् शून्या निर्ध्यातादृष्टाः । कैः ? प्रियकलत्रपुत्रैः । किंविधैः ? लब्धैः अन्तर्-मध्यादुत्सङ्गस्यैव निष्क्रान्तैः-आयुःक्षयेण मृतैः । नाटकेषु अपि विष्कम्भसूचिताभिनेयवस्तुसमाप्तिरूपा अङ्काः, ते च रणाङ्गणमध्यानिष्क्रामद्भिश्चतुर्विधाभिनयनिपुणैरभिनायकपात्रैः शून्याः स्युः । पात्राण्यपि कलत्राणि रूपाणि भवन्ति ॥ ४५ ॥
ध० अ०-हे नाथ! मया हीनदेवत्वेषु रिपूणां ऋद्धयो दृष्टाः, महर्द्धिकसुराणामपि आज्ञा कृता इत्यादिदौर्गत्यसन्तापाः सोढाः । हे नाथ! मई हीनदेव-किलबिसीया भूत प्रेत झोटिंग मोगा राक्षस माहि अनेकि वइरी तणी रिद्धी दिट्ठी। महर्द्धिक देवताइनी आज्ञा कीधी इत्यादिक अनेक दारिद्य तणा संताप सह्या ॥ ४६॥
ने० अ०-दिट्ठो० । दृष्टाः समृद्धयो रिपूणां-शत्रूणां आज्ञाः-शासनानि कृताः-परिपालिता महर्द्धिकसुराणामित्येवंप्रकारेण हीनदेवत्वेषु-किल्बिष-व्यन्तरादिकेषु । दुर्गतस्य भावो दौर्गत्यंनिःसत्वं सन्तापः-पराभवादिभेदः दारिद्र्यं च क्लेशश्च तो सोढौ-सेवितौ ॥ ४६ ॥
चि० अ०-दिट्ठा० । हे जिन ! देवगतिगतेनापीदं दुःखमनुभूतमिति योगः । रिपुऋद्धयो दृष्टाः, महर्द्धिकसुराणामाशाः कृताः, हीनदेवत्वेषु किल्बिषिकत्व-व्यन्तरत्वादिषु दौर्गत्य-सन्तापौ सोढौ । तत्र दौर्गत्यं-निःस्वत्वम् , सन्तापः-परिभवादिजश्चेतःखेदः तौ । प्राकृतत्वाद् द्विवचने बहुवचनम् ॥ ४६ ॥
पू० अ०-दृष्टा रिपुसमृद्धयः । सुरेष्वपि स्यादरातित्वम् । आज्ञाः कृता महर्द्धिकसुराणां हीण-किल्बिषिकत्वादिषु दौर्गत्यं-निःसत्त्वं सन्तापश्च तौ सोढौ ॥ ४६ ॥
ध० अ०-अथ कवि जेतलु काल नरकादिक गतिइं जीव फिरिउ ते स्वरूप बोलइ । हे नाथ! मया भववनं मिथ्यात्वादिजलेन सिञ्चता सता पुद्गलपरावर्ता अतिक्रान्ताः । हे नाथ ! मई भव-संसाररूपीउं वन मिथ्यात्व अविरति कषाय योगरूप जलि करी सींचतई हुंतई पुद्गलपरावर्त बहुशः-अनेक वार अतिक्रम्या। किंवि० पुद्गलपरावर्ताः? बहुशः अरघट्ट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org