________________
दिरचिता] ऋषभपञ्चाशिका.
૧૯૫ न जाणइ तिम तिर्यंचनई सहजिई ज्ञानावरणीय कर्मनउ उदय हुइ तीणं भाषा अणबोलियानूं दुःख सदा हुइ । मई ज्ञानावरणि आच्छादिई हूतई दुःख अनुभविउं ॥४४॥
ने० अ०-सीउण्ह । तिर्यक्त्वेऽप्यनुभूतं-सेवितं शीतं च उष्णं वर्षधारानिपातस्तेभ्यस्तैर्वा दुःखं-वेदनारूपं सुतीक्ष्णं दुःसहमानशत् (?) तस्य । मयेति गम्यते । किंविधेन ? ज्ञानावरणसाच्छादितेनापि । कोऽर्थः १ यः किल ज्ञानावरणैर्वस्त्रादिभिरावृतः स्यात् तस्य कथं शीतादिप्रजनितं दुःखं सम्भवति ? मया तु ज्ञानावरणच्छादितेनाप्यनुभूतम् । प्रायेण प्रभूतज्ञानावरणीयस्य कर्मणः तिर्यक्ष्वेव सम्भवादिति ॥४४॥
चि० अ०-सीउण्ह० । तिर्यक्ष्वपि तीक्ष्णं दुःखं मयाऽनुभूतम्-सोढम् । शीतोष्णवर्षाधारानिपातदुःखम् । निपातशब्दः प्रत्येकं योज्यः । कीदृशेन मया ? ज्ञानावरणसमुच्छादितेनापि । कोऽर्थः ? यः पटाद्यावृतो भवति तस्य शीतादिदुःखं न स्यात्, मया तु शानावरणसमुच्छादिते. नापि सोढमिति । प्रायेण प्रभूतस्य ज्ञानावरणीयस्य तिर्थक्ष्वेव सम्भवात् ॥ ४४ ॥
पू० अ०-मया तिर्यक्त्वेऽपि उत्पन्नेन इत्यर्थः । शीतोष्णवर्षधारा, निपातशब्दः शीतादित्रये योज्यः, सुतीक्ष्णं-दुःसहं सोढं ज्ञानावरणाख्येन कर्मणा उत्-प्राबल्येन छादितेन अपिर्विरोधे । यः किल नानाविधैरावरणैराच्छादितः स्यात् , कथं स शीतादिभिरभिभूयते इति ॥ ४४ ॥
ध० अ०-हे नाथ! अन्तर्-धर्मध्यानानिष्क्रान्तः पात्रैः प्रियकलत्रपुत्रैर्भवनाटकेषु अङ्काः शून्या निर्ध्याताः । हे नाथ! अन्तर्-धर्मध्यान तउ नीसरे पात्रे प्रिय भार कलन पुत्रे भव-संसाररूपीइ नाटकि शून्य अंक नीठिया । जिम नटाव रुपरीय विनइ आंतरइ नाना प्रकार रूप करी लोकनइ रंजवइ तिम धर्मध्यान तद्रूप पटनु नीसरिउ जीव पिता फीटी पुत्र थाइ माता कलत्र थाइ बेटउ बाप थाइ कलन माता थाइ इणि परि संसार नाटकि अनेक रूप करतई अंक तणा सइ नीठव्यां ॥ ४५ ॥
ने अ०-अंतोनिक्खं । हे देव ! संसाररङ्गान्तरे सर्वत्र अखण्डितान्यस्य मोहनरेशस्य पुरः कर्मपरिणामसूत्रधारेण चतुर्गतिनाटकानि अभिधीयन्ते । तन्मध्याच्चाभिधेयमानेषु मनुष्यगतिरेव तत्तदवस्थाविशेषादनुभूयमानशृङ्गारादिरसात्मकत्वेन नाटकानीव तेषु मनुष्यगतिनाटकेषु मया निाता:-दृष्टाः । के ? अङ्का-उत्सङ्गाः, अन्यत्राधिकारपरिच्छेदाः। किम्भूताः ? शून्याः। कैः ? वल्लभकलत्रपुत्रैः । किंविधैः ? सातोदयाल्लब्धः-प्राप्तैः । यद्वा खोचितगुणाधारत्वेन पात्रभूतैः। तेषामेव क्रोडक्रीडाविलासयोग्यत्वात् । कथं रहितत्वं तेपामित्याह-अन्तर्-मध्यादुत्सङ्गस्यैव निष्क्रान्तैः-आयुःक्षयेण यमकिड्करीकृतैः, मृतैरित्यर्थः । पक्षे निष्क्रान्तैः-गतैरिति । नरभवे उत्पन्नेन मया कलत्रादिवियोगोद्भूतं दुःखमनुभूतमित्यर्थः । नाटकेष्वपि विष्कम्भसूचिताभिनेयवस्तुसमाप्तिरूपाद्यङ्काः । ते च रङ्गाङ्गणमध्यान्निष्क्रामद्भिश्चतुर्विधाभिनेयवस्तुसमाप्तिनिपुणैरभिनायकपात्रैः शून्याः स्युः । पात्राण्यपि कलत्रपुत्ररूपाणि भवन्ति ॥ ४५ ॥
. 'भव्यु' इति ख-पाठः। २ 'उपरीयच्छिनई' इति ख-पाठः । ३ 'ध्यानरूप' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org