________________
૧૮૨ अवचूरिचतुष्टयसमेता
[श्रीधनपालइति भणित पल्लव-किसलय संयुक्त छइ जीणं । पुनः किं० ? रतिवल्लिस्फुरद्धास्यकुसुमे । रति इति भणित स्फुरन्ती-प्रसरन्ती हास्यरूपिणी वेली छइ जीणइ ॥ २४ ॥ · ने० अ०-भगवतो वीतरागतां स्तौति-अ० । हे भगवन् ! त्वन्मनः तापितमपि शृङ्गारवने-भोगकानने नाश्रितं-नै निवासः कृतः । किम्भूते वने ? दर्शनस्य श्रवणस्य चानु-पश्चाजायत इत्यनुरागः स एव पल्लवोघो विद्यते यस्य तत् तथा तस्मिन् अनुराग एव]पल्लववति । तथा रतिवल्लीव यत्र तच्च तत् स्फुरद्धासकुसमं च यस्मिन् । यद्वा रतिरेव वल्ली तस्यां स्फुरद्धासकुसुमं यत्र । यो हि किलातपे ग्रीष्मेण तापितो भवति स च वनमाश्रयति । त्वन्मनस्तु तपसा तापितमपि शृङ्गारवने नाश्रितम् ॥ २४ ॥
चि० अ०-भगवतो वीतरागतां स्तौति-अथानङ्गदर्पदलनोत्तालतां विभोरभिधित्सुरादावेव तदाश्रयभूते शृङ्गारवैरङ्गिकत्वमाह-अणु० । अनुराग एव पल्लवौघस्तेन पल्लववति । रतिःअनुरागः तस्यैव सन्ततिः सैव वल्लिस्तस्यां स्फुरत्-विकस्वरं हास्यं एव-स्मितमेव कुसुमं यत्र । तपोभिस्तापितमपि-बाढं तप्तमपि तव मनः शृङ्गारवने न लीनम्, प्राकृतत्वात् पुंल्लिङ्गता ॥ २४ ॥
पू० अ०-अनुराग एव पल्लवौघस्तद्वति । रतिः-अनुरागस्यैव नैरन्तर्येण प्रवर्धमाना सन्ततिः सैव. वल्लिस्तस्यां स्फुरत् स्मितमेव कुसुमं यत्र । एवंविधे शृङ्गारवने तव मनः तपोभिस्तप्तमपि न समाश्रितम् । प्राकृतत्वात् पुंस्त्वम् ॥ २४ ॥
घ० अ०-अथ कवि मयणनिराकरण जिननी स्तुति बोलइ । हे नाथ ! हरि-हराभ्यां यस्य मदनस्य आज्ञा शीर्षे-मस्तके शेषेव अवलम्बिता-धृता । हे नाथ! हरि-हरादिक देवे जेह मदन-कंदर्प तणी आण मस्तकि सेसनी परि धरी-आरोपी । सोऽपि मदनः तव ध्यानज्वलने मदनमिव विलीनः-विलयं गतः । तेहइ मदन-कंदर्प ताहरा ध्यानरूपीया ज्वलन-वैश्वानरमाहि मीणनी परिई विलइ ग्यूं ॥ २५ ॥
ने० अ०-मदननिराकरणद्वारेण स्तुतिमाह-आ० । आज्ञा-शासनं यस्य मदनस्य विलगिता-अनेकार्थत्वात् धातूनां सप्रणयं आरोपिता-रचिताऽऽश्रिता मस्तके हरि-हराभ्यामपि शेषेव-मालेव । सोऽपि मारस्तव ध्यानज्वलने मदनमिव-मीणमिव विगलितः-प्रलयं गतः ॥ २५ ॥
चि० अ०-इदानी मदननिराकरणेन भगवतः स्तुतिमाह-आणा० । आशा-शासनं यस्य स्मरस्य विलम्बिता मूर्ध्नि-शिरसि हरि-हराभ्यामपि । प्राकृतत्वाद् द्विवचने बहुवचनम् । शेषेव-निर्माल्यमिव । सोऽपि-जगत्रयेऽपि अप्रतिहतपराक्रमो मदनो भवद्ध्यानज्वलने मदनमिव विलीनः-प्रलयं गतः ॥ २५ ॥
तमे पृष्ठेऽपि
१-२ 'इजि' इति ख-पाठः। ३ अशुद्ध स्थलमिदमिति प्रतिभाति, यद्यपि पाठोऽयं वर्तते निवासमक्त' इति पाठः समीचीनः स्यात्। ४ अयं तु गूर्जरदेशीयः शब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org