________________
विरविता] ऋषभपञ्चाशिका.
૧૮૧ चि० अ०-विभोर्गुणानुगुणां स्तुतिमाह-पत्ता० । यैर्जगत्कर्तृत्वादिभिर्गुणैरन्यानि (हरि)हरादीनि दैवतानि । प्राकृतत्वात् पुंस्त्वम् । ते तथाविधाभिरामत्वद्गुणग्रामसङ्कथासु क्रियमाणासु कथमेषामेवंविधा गुणगणा मम हास्यं न ददति, रागद्वेषादिदोषोपेतत्वात् । एतच्च कलङ्कस्याप्युपरि चूलिकाकल्पम् , यदेवंविधैरपि तानि तानि दैवतानि विश्वे निस्सामान्यां समुन्नति-पूजां प्राप्तानि स च तदाराधकानामेव विचारचातुरीप्रपञ्चः ॥ २२ ॥ _पू० अ०-यैर्जगत्कर्तृत्वादिभिर्गुणैरन्यानि दैवतानि निःसामान्यां समुन्नतिम्-उच्चैः पदवी प्राप्तानि त्वद्गुणसङ्कथासु क्रियमाणासु ते गुणा मम हास्यं ददते । प्राकृतत्वात् पुंस्त्वम् ॥ २२ ॥
ध० अ०-अथ कवि स्वामीना निर्दोषपणा कहिवानइं मुखिइं प्रशंसा बोलइ।हे जिन! वचनकुशला अपि मत्सरिणस्तव निन्दाऽवसरे वाचा बालिशायन्ते । हे स्वामी! वचननइ विषइ कुशलइ मच्छरी परवादी ताहरई निन्दावसरि वाणीहं करी बालिश-मूर्खपणुं आचरई। किंविशिष्टस्य तव ? दोषरहितस्य । दोषरहित छेतइ । किंविशिष्टया ? भग्नप्रसरया । भन्न-भागओ प्रसर छइ जीणं ॥२३॥
ने० अ०-भगवतो निर्दोषताकथनमुखेन श्लाघामाह-दोस । हे जिन ! दोषरहितस्यकलङ्कवर्जितस्य तव निन्दाऽवसरे-परिभवप्रस्तावे बालिशायन्ते-मूर्खा इवाचरन्ति । के? मत्सरिणः-परपरिवादिनः । कया? गिरा । किंविधया ? त्वनिर्दोषत्वात् भग्नः प्रसरः-प्रवेशो यस्याः सा (तया)। वचनकुशला अपि ॥ २३ ॥
चि० अ०-अधुना भगवतो निर्दोषताकथनेन श्लाघामाह-दोसरहिअस्स। हे जिन ! दोषरहितस्य-अज्ञानादिवर्जितस्य तव निन्दाऽवसरे-दोषप्रस्तावे वचनकुशला अपि-स्थानान्तरेषु उक्तिनिपुणा अपि मत्सरिणो बालिशायन्ते-मूर्खा इवाचरन्ति । कया? वाचा-गिरा । किंविधया? भग्नप्रसरया-भग्नप्रवेशया, निर्दोषत्वाद् भगवतः ॥ २३ ॥
पू० अ०-हे जिन ! दोषरहितस्य तव निन्दाप्रस्तावे पूर्व वचनकुशला अपि तदवसरे वाचा भग्नप्रसरया मत्सरिणो बालिशायन्ते । अयमाशयः-दुर्जनाः सूचिरन्ध्रमात्रमपि दूषणं ज्ञात्वा असन्त्यपि वचनान्यारोपयितुमुपक्रमन्ते । त्वयि तु परमाणुमात्रमपि दोषमपश्यन्तो हताशा एव जाताः । अत्र च जिनेति साभिप्रायम्, यतो रागादिजेतृत्वाजिनः । न च रागादिदोषव्यतिरिक्तः कोपादिहेतुरस्ति ॥ २३ ॥
ध० अ०-अथ कवि परमेश्वर रहई वीतरागपणूं अंगीकरी स्तुति बोलइ। हे भगवन् ! त्वन्मनः तपसा तापितमपि शृङ्गारवने नाश्रितम् । हे नाथ! ताहरूं मन तपश्चरणिई ताप्रिव्यूं इ हूंतूं शृङ्गार वनि न वस्यूं। किंविशिष्ट शृङ्गारवने ? अनुरागपल्लववति । अनुराग
'छह' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org