SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ૧૭૮ अवचूरिचतुष्टयसमेता [श्रीधनपालध० अ०-अथ कवि जिननई समवसरण उद्दिसी स्तुति बोलइ । हे नाथ ! तव प्रथमसमवसरणसमये आग्नेयी दिक् केवलसुरवधूकृतोद्योता जाता । हे स्वामी! ताहरइ समवसरणनइ समइ आग्नेय कोणनी दिसि केवलज्ञान करी सुरवधू-देवाङ्गनाए कृत-कीधउ उद्योत इसी हुई । सेवासयमागयसिहि व । उत्प्रेक्षते-सेवाशयेन-त्वदाराधनबुद्ध्या आगतः शिखीव । जाणीइ किरि सेवामिसिइं-तुझ आराधवानी बुद्धिइं आव्यु शिखीवैश्वानर छइ ॥१८॥ ने० अ०-समवसरणमुद्दिश्य स्तुतिमाह-पढम० । प्रथमसमवसरणमुखे-आद्यसमवसृत्यारम्भे तव-भवतः आग्नेयी दिक् केवलसुरवधूकृतोड्योता । केवला याः सुरवध्वः-विवुधाङ्गनास्ताभिः कृत उद्योतो यस्याः। तद्विदिशि पर्षत्रयं भावि, परं तदा साधुसाध्वीरहिता सा । अत एव केवलपदोपादानम् । उत्प्रेक्षा-सेवागतशिखीव । यद्वा सेवाशयेन-आराधनबुद्ध्या आगतश्चासौ शिखीव, स्वदिपतित्वात् ॥ १८ ॥ चि० अ०-समवसरणस्थितिविशेषमाह-पढम । केवलोत्पत्तेरनन्तरं यत् प्रथमं समवसरणं-धर्मदेशनास्थानं तदेव जगदुत्सवहेतुत्वात् महस्तस्मिन् , केवला-इतरनरादिजातिव्यतिरिक्ता याः सुरवध्वस्ताभिः कृत उद्द्योतो यस्याः । तस्यां पर्षत्रयं भविष्यति-आद्यायां साधवः, अन्तरा वैमानिका देव्यः, अन्ते च साध्व्यः । तदा च तीर्थस्याप्रवृत्तत्वेन साधुसाध्वीविरहितास्ता एव सन्ति, अतः केवलोपादानम् । जाता आग्नेयी दिक्-पूर्वदक्षिणयोरन्तरालवर्तिनी विदिक् । उत्प्रेक्षामाह-स्वयं सेवोपनीताऽग्निदेवतेव, यद्वा सेवाशयेन-सेवाऽभिप्रायेण आग्नेयीविदिशः स्वामी शिखी सुरी तेजःपुअव्याजेन प्रादुर्बभूव ॥ १८ ॥ पू० अ०-समवसरणस्थितिविशेषमाह-केवलोत्पत्तेरनन्तरं यत् प्रथम समवसरणं तदेव जगदुत्सवहेतुस्वात् महस्तत्र, यद्वा प्रथमसमवसरणस्य मुखे-प्रारम्भे । आग्नेयी दिक् केवला याः सुरवध्वस्तासां देहप्रभाभिः कृत उद्योतो यस्याः । तस्यां पर्षत्त्रयं भविष्यति-आद्यायां साधवः, अन्तरा वैमानिक्यः, अन्ते साध्यः । तदा तीर्थस्याप्रवृत्तत्वेन साधुसाध्वीविरहितास्ता एव, अतः केवलोपादानम् । उत्प्रेक्षामाह-स्वयं सेवोपगता अग्निदेवता इव, यद्वा सेवाशयेन-सेवाभिप्रायेण तत्रेन्द्रादिसुरगणं सेवागतमालोक्याग्येय्या दिश ईशः शिखी सुरी तनुतेजःपुञ्जव्याजेनात्मसुरगणैः सह सेवायै अस्यां दिशि प्रादुर्बभूव ॥ १८ ॥ ध० अ०-अथ कवि तापसागम उद्दिसी जिननी स्तुति बोलइ। हे नाथ! प्रथमतापसैःआद्यजटाधारिभिस्तपस्विभिस्तव प्रथमे दर्शने मुखरागः स्थगितः। हे स्वामी ! प्रथम तापसे–पहिले जटाधारीए तपस्वीए ताहरइ पहिलइ दर्शिनि मुखराग स्थगिउ-आच्छादिउ । किंविशिष्टो मुखरागः ? 'गृहीतव्रतभङ्गमलिनः' गृहीत-लीधउं जे तुझ साथिइं व्रत तेहनइं भंगि-भांजिवइ करी मलीन-मयलु छई । किंविशिष्टैस्तापसैः ? नूनं-निश्चितं दूरावनतैः । नूनं-निश्चिई दूर-वेगला अवनत-नम्या छइ ॥ १९॥ . 'जाणीयह' इति ख-पाठः। २ 'मयला' इति ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy